Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
ज्ञान०वि० प्रश्न०व्या० वृत्ति
॥७९॥
एगे असंजमे १ दो चैव रागदोसा २ तिनि य दंडगारवा य गुत्तीओ तिन्नि तिन्नि य विराहणाओ ३ चत्तारि कसाया झाण-सन्ना-विकहा तहा य हुंति चउरो ४ पंच य किरियाओ समितिइंदियमहव्वयाई च ५
अथ मिथ्यात्वलक्षणांतरपरिग्रहविरतत्वं प्रपश्चयन्नाह
एकोऽविवक्षित मेदत्वादविरतिलक्षणैकखभावत्वात्, असंयमो ऽसंयतत्वम् १
द्वावेव रागद्वेषौ बंधने इति शेषः । २
त्रयश्च दंडा - आत्मनो दण्डत्वात् दुष्प्रणिहितमनोवाक्कायलक्षणाः, गारवाणि गौरवाणि च गृद्ध्यभिमानाभ्यां आत्मनः कर्मणो गौरव हेतवः ऋद्धिरससातविषयाः परिणामविशेषाः त्रीणि इति प्रकृतमेव, तथा गुत्तीओ तिणित्ति गुप्तयो मनोवाक्कायलक्षणाअनवद्यप्रवीचाराsप्रवीचाररूपाः ३, तिस्रश्च विराधना ज्ञानादीनां सम्यगननुपालनाः ॥३॥
चत्वारः कषायाः-क्रोधादयः, ध्यानानि - एकाग्रतालक्षणानि आर्त्तरौद्रधर्मशुक्लध्यानानि संज्ञानं अनादिचेतनोद्भूतं विज्ञानं | संज्ञा:- आहार १ भय २ मैथुन ३ परिग्रह४ संज्ञाभिधानाः, विकथा-विरूद्धवाक्-प्रपंचरचना कथा स्त्री-भक्त- देश - राजकथादिलक्षणाः एताश्च भवन्ति ॥ ४ ॥
पंचक्रियाः - जीवव्यापारात्मिकाः कायिक्यधिकरणिकी - प्राद्वेषिकी - पारितापनिकी - प्राणातिपातक्रियालक्षणा भवन्ति, सर्वत्र क्रियापदं योज्यम्, तथा निरवद्यप्रवृत्तिरूपाः समितयः ईर्ष्या - भाषैषणादाननिक्षेपपरिष्टापनि काख्याः, तथा इन्द्रियाणि स्पर्शन-रसनघाण - नेत्र - श्रोत्रादीनि, महाव्रतानि अहिंसा-सूनृतास्तेय-ब्रह्माकिञ्चनरूपाणि प्रतीतान्यत्रैव वर्णितानीति ५ ।
पश्चम
संवरद्वारे
रागादि
आशातना
न्तानां
वर्णनं
॥७९॥

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252