Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 203
________________ BA0% मुञ्चति स अंबः१ यस्तु नारकान् निहत्य कल्पनिकाभिः खंडशः कृत्वा भ्राष्ट्रपाकयोग्यान् करोति स अंबरीषा२ यस्तु रज्जुपाणिग्रहा* रादिना शातनपातनादि करोति वर्णतोऽपि श्यामः स श्यामः ३ यश्च अंत्रवसाहृदयकालेज्यकादीनि उत्पाटयति वर्णतोऽपि शबलः स | शबलः ४ यः कुन्तादिषु नारकान् प्रोतयति स रौद्रत्वाद्रौद्रः ५, यस्तु तेषां नारकाणां मुद्गरादिना अंगोपांग विभनक्ति अतिरौद्रत्वात् स महारौद्रः ६ यः पुनः चुल्ल्यादिकं कण्ड्वादिषु पचति वर्णतोऽपि कालः स कालः ७ यश्च नारकाणां तीक्ष्णमांसानि खंडयित्वा | खादति वर्णतश्च महाकालः स महाकाल:८ असिः-खड्गस्तदाकारपत्रवद्वनं विकुळ यस्तदाश्रितनारकान् असिपत्रपातनेन तिलशः छिनत्ति सोऽसिपत्रः९ यो धनुर्मुक्ताधचन्द्रादिभिर्वाणैः कर्णादीनां छेदनमेदनादि करोति स धनुपत्रः १० भगवत्यां तु महाकालानन्तरमसिः ततोऽसिपत्रः ततः कुंभिरिति पठयते, तत्र योऽसिना नारकान् छिनत्ति सोऽसिः शेषं तथैव, यः कुम्भ्यादिषु तान् पचति स कुंभः ११ | यः कदंबपुष्पाकारासु वज्राकारासु वैक्रियवालुकासु तप्तासु चनकानिव तान् पचति स वालुकः १२ विरूपं तरणं अस्याः प्रयोजनं सा वैतरणी यथार्था पूयरुधिरत्रपुताम्रादिभिरतितापात् कलकलायमानैः भृतां नदी विकुळ तत्चारणार्थ यः नारकान् कदर्थयति स वैतरणिकः १३ यो वजकंटकाकुलं शाल्मलीवृक्षं नारकमारोप्य खरखरं कुर्वन्तं कुर्वन् वा कर्षति स खरस्वरः १४ यस्तु भीतान् अबलायमा. | नान् नारकान् पशूनिव वाटेषु महाघोष कुर्वनिरुणद्धि स महाघोषः१५ एवमेते पंचदश परमाधार्मिकाः प्राग्जन्मनिबद्धसंक्लिष्टक्रूरक्रियाः पापाभिरताः पंचाग्न्यादिरूपं मिथ्याकष्टतपः कृत्वा रौद्रीमासुरगतिमनुप्राप्ताः संतो नारकाणामाद्यासु तिसृषु पृथिवीषु विविधवेदनाः | समुदीरयन्ति तथा कदीमानांश्च नारकान् दृष्ट्वा इहत्यमेषमहिषकुकुटादियुद्धप्रेक्षकनरा इव हृष्यन्ते हृष्टाश्चाट्टाट्टहासं चेलोत्क्षेपं त्रिपकावास्फालनादिकं च कुर्वन्ति किं बहुना ? यथैषामित्थ प्रीतिन तथा नितान्तकान्ते प्रेक्षणकादाविति ज्ञेयं इति पंचदशाऽपि परमाधार्मि AONॐ4%AUSA A5

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252