Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala
View full book text
________________
4৬64
तित्तीसा आसातणा सुरिंदा आदि
जोगेत्ति ध्यानमेव संवरयोगो ध्यानसंवरयोगः २८ उदए मारणंतिएचि मारणांतिकेऽपि वेदनोदये न क्षोभः कार्यः २९ संगाणं परिणत्ति संगाणां विषयाभिष्वंगानां ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञा कार्या ३० पायच्छित्त करणे इयत्ति प्रायश्चितकरणं कार्ये ३१ आराहणयाय मरणंतेत्ति मरणरूपोऽन्तो मरणान्तस्तत्र सम्यगाराधना संयमः कार्यः ३२ इति द्वात्रिंशत् योगसंग्रहाः सदृष्टान्ता आवश्यक नियुक्तिवृत्तितोऽवसेया विस्तरार्थिभिः तत्र द्रष्टव्यमिति
तिचीसासायणा ३३ अथ त्रयस्त्रिंशदाशातना आयो- ज्ञानादीनां लाभस्तस्य शातना खंडना यथा भवति सा अशातनास्तामाः रायणियस्स सेहो पुरओ गंता भवइ आसायणा सेहस्स इत्येवमालापो दृश्यते तत्र रत्नाधिकस्य पुरओति अग्रतः १ सपक्खे समानपक्षं समपार्श्व यथा भवति तथा समश्रेण्या गच्छति इत्यर्थः । चंक्रमणे स्थिते उपविष्टे गुरोरग्रे उभयोः पार्श्वे [आसने] गंता स्थाता निषीदन् एवं ९ शिष्यस्याशातना भवंति विचारभूमौ गतयोः द्वयोः पूर्वमाचमनं शैक्षस्याशातना १० एवं पूर्व गमनागमनालोचयतः ११ तथा रात्रौ रत्नाधिकेन को जागर्त्ति इति पृष्टे तद्वचनमप्रतिशृण्वतः १२ तथा रात्निकस्य आलपनीयस्य पूर्वमालापयत आशातना १३ लब्धमशनादि पूर्वं परमालोचयतः १४ एवमन्यस्योपदर्शयतः १५ एवं निमंत्रयतः १६ रात्निकमनापृच्छ्य अन्यस्मै भक्तादि ददतः १७ स्वयं प्रधानतरं भुंजानस्य १८ क्वचित्प्रयोजने दिवापि रात्निकवाचाऽप्रतिशृण्वतः १९ रात्निकं प्रति तत्समक्षं वा बृहता शब्देन बहुभाषमाणस्य २० व्याहृतेन मस्तकेन वंदे इति वक्तव्ये किं भणसि इत्यादि ब्रुवाणस्य २१ रात्निके प्रेरयति कस्त्वं प्रेरणाया१ प्रवचनसारोद्धारवृत्ति गाथा १२९-१४९ यावदाशातना स्वरूपम्

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252