Book Title: Prashna Vyakaran Sutram Part 2
Author(s): Gyanvimalsuri, Mafatlal Zaverchand Pt
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 219
________________ पुरेकम्मं, नितिकम्मं, मक्खियं, अतिरिक्तं, मोहरं चैव सयग्गहमाहडं, महिउवलित्तं, अच्छेजं चेव अणीस जं तं तिहीसु जन्नेसु ऊसवेसु य अंतो वा बहिं व होज समणट्टयाए ठवियं हिंसासावज्जसंपत्तं न कप्पती | तंपिय परिघेत्तुं । पुण्यार्थ श्रमणाः - पंचविधा निर्ग्रन्थशाक्यतापसगैरिकाजीविका स एव अर्थः प्रयोजनं यस्य तत्तथा तदर्थं कृतं - निष्पादितं, वनीपका:याचकाः तदर्थं कृतं एते चत्वारोऽपि उद्देशिकभेदाः, पश्चा-दानानन्तरं भाजनधावनादिकर्म यत्राशनादौ तत्पश्चात्कर्म, पुरो दानात्पूर्व हस्तधावनादिकर्म पूर्वकर्म, नैत्यिक- नित्यमवस्थितमेतत् प्रमाणं दातव्यमिति, प्रक्षितं उदकादिना संसृष्टं अयमेषणादोषः । अतिरित्तंति - " बत्तीस किरकवला आहारो कुच्छिपूरओ भणिओ पुरिसस्स महिलयाए अठ्ठावीसं भवे कवला " || १॥ एतत्प्रमाणातिक्रान्तमयं च मंडलीदोषः, मोहरं त्ति- मौखर्येण पूर्वसंस्तव पश्चात्संस्तवादिना बहुभाषितत्वेन यल्लभ्यते तत् मोहरं अयमुत्पादनादोषः, स्वयं-आत्मनाऽदत्तं गृह्यते यत् तत्स्वयं ग्राह्यं दातॄणामभावेऽपि संलापादिना स्वयमेव धर्माशीः पूर्वकं गृह्यते अयं अपरिणताख्यदोषांतर्भवति, आहडत्ति-स्वग्रामादेः साध्वर्थमानीतं - आहतं, मट्टिओ वलितं त्ति - मृत्तिकाज तुगोमयादिना उपलिप्तं, आच्छेद्यं यदाच्छिद्य-उद्दाल्य भृत्यादिभ्यः खामी ददाति चेव निश्चितं, अनिसृष्टं - यद्बहुसाधारणं सत् यत् एक एव ददाति एतादृशं पत्, तिथिषु मदनत्रयोदश्यादिषु, यज्ञेषु यज्ञपाटकेषु, उत्सवेषु - इन्द्र महोत्सवादिषु, यात्रासु - जनसमुदायेषु, अन्तर्बहिर्वा उपाश्रयात् श्रमणार्थं स्थापितं - दानादौ प्रस्थापितं, पुनः कीदृशं : हिंसालक्षणं यत् सावद्यं तत्सम्प्रयुक्तं न कल्पते तत् किमपि पूर्वोक्तं सर्वं परिगृहीतुं - लां १ पिण्डनियुक्ति गाथा ६४२ पृष्ठ १७३

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252