________________
पुरेकम्मं, नितिकम्मं, मक्खियं, अतिरिक्तं, मोहरं चैव सयग्गहमाहडं, महिउवलित्तं, अच्छेजं चेव अणीस जं तं तिहीसु जन्नेसु ऊसवेसु य अंतो वा बहिं व होज समणट्टयाए ठवियं हिंसासावज्जसंपत्तं न कप्पती | तंपिय परिघेत्तुं ।
पुण्यार्थ श्रमणाः - पंचविधा निर्ग्रन्थशाक्यतापसगैरिकाजीविका स एव अर्थः प्रयोजनं यस्य तत्तथा तदर्थं कृतं - निष्पादितं, वनीपका:याचकाः तदर्थं कृतं एते चत्वारोऽपि उद्देशिकभेदाः, पश्चा-दानानन्तरं भाजनधावनादिकर्म यत्राशनादौ तत्पश्चात्कर्म, पुरो दानात्पूर्व हस्तधावनादिकर्म पूर्वकर्म, नैत्यिक- नित्यमवस्थितमेतत् प्रमाणं दातव्यमिति, प्रक्षितं उदकादिना संसृष्टं अयमेषणादोषः ।
अतिरित्तंति - " बत्तीस किरकवला आहारो कुच्छिपूरओ भणिओ पुरिसस्स महिलयाए अठ्ठावीसं भवे कवला " || १॥ एतत्प्रमाणातिक्रान्तमयं च मंडलीदोषः, मोहरं त्ति- मौखर्येण पूर्वसंस्तव पश्चात्संस्तवादिना बहुभाषितत्वेन यल्लभ्यते तत् मोहरं अयमुत्पादनादोषः, स्वयं-आत्मनाऽदत्तं गृह्यते यत् तत्स्वयं ग्राह्यं दातॄणामभावेऽपि संलापादिना स्वयमेव धर्माशीः पूर्वकं गृह्यते अयं अपरिणताख्यदोषांतर्भवति,
आहडत्ति-स्वग्रामादेः साध्वर्थमानीतं - आहतं, मट्टिओ वलितं त्ति - मृत्तिकाज तुगोमयादिना उपलिप्तं, आच्छेद्यं यदाच्छिद्य-उद्दाल्य भृत्यादिभ्यः खामी ददाति चेव निश्चितं, अनिसृष्टं - यद्बहुसाधारणं सत् यत् एक एव ददाति एतादृशं पत्, तिथिषु मदनत्रयोदश्यादिषु, यज्ञेषु यज्ञपाटकेषु, उत्सवेषु - इन्द्र महोत्सवादिषु, यात्रासु - जनसमुदायेषु, अन्तर्बहिर्वा उपाश्रयात् श्रमणार्थं स्थापितं - दानादौ प्रस्थापितं, पुनः कीदृशं : हिंसालक्षणं यत् सावद्यं तत्सम्प्रयुक्तं न कल्पते तत् किमपि पूर्वोक्तं सर्वं परिगृहीतुं - लां
१ पिण्डनियुक्ति गाथा ६४२ पृष्ठ १७३