SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ज्ञान०वि० प्रश्न०व्या० वृत्ति ॥७९॥ एगे असंजमे १ दो चैव रागदोसा २ तिनि य दंडगारवा य गुत्तीओ तिन्नि तिन्नि य विराहणाओ ३ चत्तारि कसाया झाण-सन्ना-विकहा तहा य हुंति चउरो ४ पंच य किरियाओ समितिइंदियमहव्वयाई च ५ अथ मिथ्यात्वलक्षणांतरपरिग्रहविरतत्वं प्रपश्चयन्नाह एकोऽविवक्षित मेदत्वादविरतिलक्षणैकखभावत्वात्, असंयमो ऽसंयतत्वम् १ द्वावेव रागद्वेषौ बंधने इति शेषः । २ त्रयश्च दंडा - आत्मनो दण्डत्वात् दुष्प्रणिहितमनोवाक्कायलक्षणाः, गारवाणि गौरवाणि च गृद्ध्यभिमानाभ्यां आत्मनः कर्मणो गौरव हेतवः ऋद्धिरससातविषयाः परिणामविशेषाः त्रीणि इति प्रकृतमेव, तथा गुत्तीओ तिणित्ति गुप्तयो मनोवाक्कायलक्षणाअनवद्यप्रवीचाराsप्रवीचाररूपाः ३, तिस्रश्च विराधना ज्ञानादीनां सम्यगननुपालनाः ॥३॥ चत्वारः कषायाः-क्रोधादयः, ध्यानानि - एकाग्रतालक्षणानि आर्त्तरौद्रधर्मशुक्लध्यानानि संज्ञानं अनादिचेतनोद्भूतं विज्ञानं | संज्ञा:- आहार १ भय २ मैथुन ३ परिग्रह४ संज्ञाभिधानाः, विकथा-विरूद्धवाक्-प्रपंचरचना कथा स्त्री-भक्त- देश - राजकथादिलक्षणाः एताश्च भवन्ति ॥ ४ ॥ पंचक्रियाः - जीवव्यापारात्मिकाः कायिक्यधिकरणिकी - प्राद्वेषिकी - पारितापनिकी - प्राणातिपातक्रियालक्षणा भवन्ति, सर्वत्र क्रियापदं योज्यम्, तथा निरवद्यप्रवृत्तिरूपाः समितयः ईर्ष्या - भाषैषणादाननिक्षेपपरिष्टापनि काख्याः, तथा इन्द्रियाणि स्पर्शन-रसनघाण - नेत्र - श्रोत्रादीनि, महाव्रतानि अहिंसा-सूनृतास्तेय-ब्रह्माकिञ्चनरूपाणि प्रतीतान्यत्रैव वर्णितानीति ५ । पश्चम संवरद्वारे रागादि आशातना न्तानां वर्णनं ॥७९॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy