SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ॥ अथ पंचमं संवरद्वारात्मकं दशमाध्ययनम् ॥ BARAGAR अथ पंचमं परिग्रहविरमणं संवरद्वारं व्याख्यायते, अस्य चाऽयमनुक्रमः पूर्व मैथुनविरमणमुक्तं तत्तु सर्वथा परिग्रहविरमणे कृते एव भवति तदभिधायकं पचमं द्वारमारभ्यते तस्येदमादिमं सूत्रम्-जंबू इत्यादि सूत्रानुक्रमो यथा| जंबू! अपरिग्गहसंवुडे य समणे आरंभपरिग्गहातो विरते विरते कोहमाणमायालोभा जम्यूरिति शिष्यस्यामंत्रणम् , अपरिग्रहो-धर्मोपकरणवर्जनोपकरणमूर्छावर्जितः तथा संवृतश्च इन्द्रियकषायसंवरणेन संवृतः तथा यः सः तादृशः श्रमणो भवति चकाराद्ब्रह्मचर्यादिगुणयुक्तः, एतदेव प्रपश्चयन्नाह स च कीशः ? आरंभ:-पृथिव्याधुपमर्दः, परिग्रहो बाह्याभ्यन्तरमेदाद्विधा, कोऽसौ बाह्यो ?-धर्मसाधनवजों धर्मोपकरणमूर्छा वा, इतरस्तु मिथ्यात्वाविरतिकषायप्रमाददुष्टयोगावलंबनरूपः, आह च "पुत्वाइसु आरंभो परिग्गहो धम्मसाहणं मोत्तुं । मुच्छा य तत्थ बज्झो इयरो मिच्छत्तमाइओ॥१॥" अनयोः समाहारद्वन्द्वस्तस्माद्विरतो निवृत्तो यः स श्रमणः। तथा क्रोध-मान-माया लोभाद्विरतः। १ पृथिव्यादिष्यारम्भः परिग्रहो धर्मसाधनं मुक्त्वा मुर्छा च तत्र बायः इतरो मिथ्यात्वादिकः ॥१॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy