SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ चतुर्थ शान०वि० प्रभ०व्या० वृत्ति संवरद्वारे ब्रह्मचर्य भावनाः ||७८॥ अणासवो अकलुसो अच्छिदो अपरिस्सावी असंकिलिट्ठोसुद्धोसव्वजिणमणुन्नातो, एवं चउत्थं संवरदारं फासियं पालितं सोहितं तीरितं किहितं आणाए अणुगालियं भवति, एवं नायमुणिणा भगवया परूवियं पसिद्धं सिद्धवरसासणमिणं आघविर्य सुदेसितं पसत्थं [सू० २७] चउत्थं संवरद्वारं समत्तं त्तिबेमि ॥४॥ भिः कृत्वा, मनोवाकायपरिरक्षितैः नित्यं-सदा आमरणान्तं-यावजीवमित्यर्थः, एषः कथ्यमानो योगः संवररूपो ज्ञातव्यः धृतिमता| धैर्यवता मतिमता-बुद्धिमता कीदृशो योगः अनाश्रवो, विरतिरूपः, अकलुषः-शुद्धाशयः, अच्छिद्रो निदोषत्वात् , अपरिस्रावी-अनिदानरूपः, असंक्लिष्टो-दुर्व्यानरहितत्वात् , अतएव शुद्धो निर्दोषः सर्वजिनैः-सर्वतीर्थकरैः अनुज्ञातः एवमुक्तरीत्या चतुर्थ ब्रह्मचर्यलक्षणं संवरद्वार संवरस्य मुखमिव मुख-द्वारं स्पर्शितं कायेन, पालितं पुनर्निरतिचारत्वेन, शोधित-गुर्वाज्ञानुसारेण, तीरितं अधिकाधिकोसाहेन, कीर्तितं पुनः पुनः स्मरणादिना, आज्ञया अनुपालित एभिः विशेषणैर्मर्यादा प्राप्तं भवति एवममुना प्रकारेण, ज्ञातमुनिनाज्ञातपुत्रेण भगवता प्रज्ञापित, प्ररूपित, प्रसिद्धं-विख्यातं प्रधानशासनमिदं आख्यातं, सुष्टु-देशितं कथितं, प्रशस्तं प्रधान, चतुर्थसंवरद्वारं समाप्तं नवमाध्ययनविवरणमिदं इति शब्दः-परिसमाप्तौ पूर्ववदेव वाच्यः। श्री प्रश्नव्याकरणांगस्य दशमस्य नवमाध्ययनम् व्याख्यातं च सदर्थं तुर्यं ब्रह्मवतद्वारं ॥१॥ इति श्रीमद् ज्ञानविमलसूरीश्वरविरचिते प्रश्नव्याकरणे चतुर्थ संवरद्वारं समाप्तं 5456565456-MA5% ॥७८N
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy