Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 22
________________ परिणाम श्री * त्सहेद्येषां प्रत्याख्यानमिहोद्यात् । अप्रत्याख्यानसंज्ञाऽतो, द्वितीयेषु निवेशिता ॥ २ ॥ सर्वसावद्यविरतिः, प्रत्याख्यानमुदाहृतम् । तदावरणसंज्ञाऽतस्तृतीयेषु निवेशिता ॥ ३ ॥ शब्दादीन् विषयान् प्राप्य, संज्वलन्ति यतो मुहुः । अतो संज्वलनीयाख्या, चतुर्थानामिहो प्रज्ञापनो- * च्यते ॥ ४ ॥ तेषामेव क्रोधादीनां निवृत्तिप्रतिमेद आख्यायते- 'आभोगनिव्वत्तिपत्ति' जानन् रुप्यति, अणाभोगनिव्वत्तिए' अजानन् ** पदम् पांगम् * रुष्यति उपशान्त अनुदयावस्थः, अनुपशान्त इति उदयप्राप्तः, इदानीं फलमेदेन कालत्रयवर्तिना मेद उच्यते- 'चउहिं ठाणेहिं कम्मं चिणिसु' इत्यादि, [ पापग्रहणात् घातिकर्म्मणां ग्रहणं, अथवा सर्वमेव हि कर्म्म पापमित्युच्यते,] तत्र चयनं नाम कषायपरिणतस्य १३ परिणाम० * कर्म्मपुद्गलोपादानमात्रं गृह्यते, उपचयो ग्रहणान्वितस्य अबाधाकालं मुक्त्वा उत्तरकालं ज्ञानावरणीयादिकर्म्मतया निषेकः यस्मादुक्तं * कर्म्मप्रकृतिसंग्रहणिकायां स्थितिबंधाधिकारे अबाधाकण्डके- "मोत्तूणं सगमबाहं पढमाइ ठितीए बहुतरं दवं । सेसे विसेसहीणं जाकसंति सव्वासिं ॥ १ ॥” णाणावरणिजादिकम्माणं अप्पणो जाव अबाहा तिवाससहस्साइया तं अबाहाकालं मोचूणं णाणावरणिज्जा* दिकम्मतया पढ़माए ठितीए बहुयं कम्मदलियं [ निसिंचति, बंधिस्संति बंधग्रहणात् तदेव ज्ञानावरणादिकर्म्मतया,] ताव विसेस हीणं निसिंचति, तथा 'बंधिसु बंधंति बंधिस्संति' बन्धग्रहणात् तदेव ज्ञानावरणादिकर्म्मतया निषिक्तं पुनरपि कषायपरिणतिविशेपानिकाच्यते, तद् बन्धशब्देन कालत्रयेऽपि निकाचितावस्थं दर्श्यते, तथा 'उदीरिंसु उदीरंति उदीरिस्संति' उदीरणा हि अनुदयप्राप्तं * चिरेण आगामिना कालेन यद् वेदयितव्यं कर्म्मदलिकं तस्य विशिष्टनाध्यवसायविशेषेण करणेनाकृष्य उदये प्रक्षेपणमुदीरणा, सा च कषायपरिणतिविशेषादेव भवति, तथा वेदना कालत्रयेऽपि, वेदना तु कर्म्मण उपभोगोऽनुभवः तत्र वेद्नं स्थितिक्षयादुदयप्राप्तस्य कर्म्मण उदीरणाकरणेन वा उदयभावमुपनीतस्य भवति, तथा 'णिजरिंसु' ति निर्जरा नाम कर्म्मणोऽकर्म्मत्वभवनं, ततश्च आत्मप्र* देशेन सह संश्लिष्टस्य कर्मणः शातनं तथा चोतं "पुव्वकयकम्मसाडणं तु णिज्जरा” इति भ्रुवोदयत्वात् क्रोधादिवेदनीयकर्म्मणां, तेनोच्यते णिज्जरिंसु ३, कोहकसारणं माणकसाएणं मायाकसारणं लोभकसापणं इयं वा देशनिर्जरा पुनः चतुर्विंशतिदण्डकेऽपि भवति ॥ ॥ प्रज्ञापनाप्रदेशव्याख्यायां चतुर्दशकषायपदव्याख्या समाप्तेति ॥ ॥१६॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96