Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
श्री | प्रज्ञापनो पांगम्
कषायपदम्
कषाय
अधुना चतुर्दश पदमारभ्यते, भस्य चायमभिसम्बन्धः-इहानन्तरपदे गत्यादिलक्षणजीवपरिणामः सामान्येनोक्तः, तत्र सामान्यस्य विशेषविषयत्वाद्विशेषतःस एव कचित् कश्चित् प्रतिपाद्यते, तत्रैकेन्द्रियाणामपि क्रोधादिकषायभावात् प्रधानबन्धहेतुत्वात् "सकषायत्वाज्जीवः कर्मणो योग्यान पुद्गलानादत्ते" (तत्त्वा० अ०८ सू०२) इति वचनावादावेव विशेषतः कषायपरिणामप्रतिपादनार्थमिदमारभ्यते, इह चेदमादिसूत्र-'करणं भंते ! कसाया पण्णता ?' इत्यादि, कियन्तो भदन्त ! कषायाः प्रक्षप्ताः?, तत्र कषाया इति निरुक्तमुच्यते, "सुहदुक्खबहुसतीय कम्मकखेत्तं कसंति ते जम्हा । कलुसंति जंच जीवं तेण कसायत्ति वुच्चंति ॥ १ ॥ अहवाकम्म कसं भवो वा कसमायो सिं जतो कसायातो। कसमाययंति व जतो गमयंति कसं कसायत्ति ॥२॥ निर्वचनसूत्र क्षुण्णार्थ, नेरइयाणमित्यादि प्रश्नः निर्वचनं-चत्तारि कषाया पण्णत्ता' इत्येतत् प्रवाहापेक्षया भावनीयं तत्कर्मपुद्गलप्रदेशाऽनुभवतो नेति, | 'आतपइद्रित' इति, आत्मन्येव प्रतिष्ठितः, पतदुक्तं भवति यत् स्वयमाचरति तस्य देहिकं प्रत्यपायं दृष्ट्वा आत्मनः क्रुध्यतीत्यात्मप्रतिष्ठितः, परप्रतिष्ठितः यदा पर उदीरयति आक्रोशादिना तदा नैगमनयदर्शनेन परप्रतिष्ठित उच्यते, कथं ? यथा सम्यग्दर्शनपरीक्षायामधिकरणानुयोगद्वारे आत्मसन्निधाने जीवे सम्यग्दर्शनं परसन्निधानेजीवे सम्यग्दर्शनमित्यष्टास्वपि भंगेषु भवति एव| मिहापीति, उभयपतिढ़िए आत्मपरप्रतिष्ठितः, अनुभयप्रतिष्ठित इति (न) आक्रोशादिकारणवशाद् (सापेक्षाणि निरपेक्षाणि च') | कर्माणि फलविपाकेषु । सोपक्रमं च निरुपक्रमं च दृष्टं यथाऽऽयुष्कम् ॥ इति एवं तावदधिकरणमेदेन मेद उक्तः, अधुना | सम्बन्धित्वेन भेद उच्यते, 'खेत्तं पडुच' इत्यादि, तत्र नारकाणां नारकक्षेत्र प्रतीत्य तिरश्चां तिर्यक्षेत्रं मनुष्याणां मनुष्यक्षेत्रं देवानां | देवक्षेत्रमिति, 'वत्थं पञ्चत्ति' वस्तु सचेतनमचेतनं वा शरीरं प्रतीत्य दुष्टसंस्थित विरूपं वा, 'उपधिं पडुच' यद्यस्य उपकरण, इदानीं सम्यग्दर्शनादिगुणघातित्वेन, 'अर्णताणुबंधी'त्यादि अनन्तं संसारमनुबधुं शीलमस्येति अनन्तानुबंधी क्रोधः, तथा स्वल्पमपि प्रत्याख्यानमावृणोतीति अप्रत्याख्यानावरणः, [सर्व प्रत्याख्यानावरण:-सर्व प्रत्याख्यानमावृणोतीति प्रत्याख्यानावरणः, संज्वलयतीति | संज्वलन, उक्तं च तत्र "अनन्तान्यनुबध्नन्ति यतो जन्मानि भूतये। ततोऽनन्तानुबन्ध्याख्या क्रोधाचेषु निदर्शिता ॥१॥ नाल्पमप्यु
॥१५॥

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96