Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 54
________________ पुङ्गल:- काष्ठलोष्टादिलक्षणः परिणामश्चाभ्यवहृतस्य वातादिलक्षण इति । तत्र निर्वचनं 'दसविह' मित्यादि, सोतावरणेत्यादि * श्रोत्रावरण इत्यनेन निर्वृत्युपकरणे द्रव्येन्द्रियं गृह्यते । तद्विज्ञानावरणा इति, लब्ध्युपयोगौ भावेन्द्रियं गृह्यते । एवं सर्वत्र । एकेन्द्रियाणां चतुर्णामावरणं, द्वीन्द्रियाणां त्रयाणामावरणं, त्रीन्द्रियाणां द्वयोः, चतुरिन्द्रियाणामेकस्य, निर्वृत्युपकरणेन्द्रिययोः * प्राप्तयोरपि कुष्ठादिव्याधिभिरुपहतत्वात् तद्विज्ञानानुपलब्धिः, जात्यन्धजातिबधिरादीनां वा । 'जं' वेदेति पोग्गले वा' वेदयतीति पांगम् यदा सम्बन्धमुपयाति काष्ठादिना अभिघातजननसमर्थेन पुद्गलैर्वा, तदभिघातादिजनितेन मूर्च्छादिना तदा ज्ञानपरिणत्युपघातः । २३ कर्म० * 'पोग्गलपरिणामं चे'ति, अत्र वेदयतीति आहारितस्य वातिकपैत्तिकश्लेष्मिकभोजनस्योत्तरकालं रसादिना परिमितस्य वा * धातूनामुदयात् शानपरिणत्युपधाताः । तथा 'विस्ससा वा पोग्गलपरिणाम' मिति विश्रसापरिणामं शीतोष्णातपादिकं प्राप्य, तत्सम्बन्धाश्चेन्द्रियोपघातस्तदुपघाताच्च ज्ञानपरिणत्युपघातः, 'जाणियव्वं ण जाणती 'ति ज्ञातव्यमैन्द्रियकमपि सद्वस्तु ज्ञानपरिणतेः प्रतिहत्वान्न जानाति, अयं सापेक्षो विपाकः, निरपेक्षस्य तु अयं सूत्रालापः -तेसिं वा उदपणं तेषामिति ज्ञानावरणीयादिकमनु* भावविशेषाणां । 'जाणितुकामे ण जाणति'त्ति, ज्ञानपरिणामेन परिणतुमिच्छतो विज्ञानपरिणत्युपघातः । ' जाणित्तावि ण याणति'त्ति प्राक् ज्ञात्वापि पुनर्न जानीते तेषामेवोदयात्, तथा च अपरिणतिविपरिणत्योर्हेतुर्हि तदावरणमिष्टमिति । उक्तं च- "सापेक्षाणि व निरपेक्षाणि च कर्माणि फलविपाकेषु । सोपक्रमं च निरुपक्रमं च कष्टं यथाऽऽयुष्कं ॥ १ ॥” तत्र सापेक्षाणां वातिकपैत्तिकश्लेष्मिक*** भोजनशीतोष्णवर्षवातादीनर्थानपेक्ष्य, न तु सुखदुःखक्रोधादिपरिणामः । 'उच्छन्नणाणी यावि भवति'त्ति, ज्ञानज्ञानिनोरमेदात् प्रच्छादितज्ञान्यपि भवति । शेषं सुगमं । यावन्निद्देत्यादि, तत्र निद्रादीनां स्वरूपं - "सुहपडिबोहो णिद्दा दुहपडिबोहा य निनिदा जय । पयला होति ठियस्स उ पयलपयला य चंकमओ ॥ १ ॥ श्रीणगिद्धी पुण अतिसंकिलिट्ठकम्माणुवेयणे होति । महणिद्दा दिण* चिंतियवावारपसाहणी पायं ॥ २ ॥” चक्षुर्दर्शनावरणं चक्षुः सामान्योपयोगावरणमित्यर्थः, एवं शेषेष्वपि भावनीयं ।' जं बेयति पोग्गलं * वा' मृदुशयनीयादि, 'पोग्गले वा' मृदुशयनीयगन्धरूपगंडोपधानादीन्, 'पोग्गलपरिणामं वा' माहिषदध्याद्यभ्यवहारपरिणाम श्री प्रज्ञापनो *** कर्मप्रकृति पदम् 118211

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96