Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
साम्प्रतमेकत्रिंशत्तमपदव्याख्या समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरपदे ज्ञानपरिणामविशेषः प्रतिपादितः, इह * तु परिणामसाम्याद्गतिपरिणामविशेष एव संज्ञापरिणामः प्रतिपाद्यत इति । इह चैवमादिसूत्रम् - 'जीवा णं भंते सण्णी 'त्यादि तत्र संज्ञीति संज्ञायते अनया पूर्वोपलब्धो भूतभविष्यद्वर्त्तमानोऽर्थः स शब्दादिरिति संज्ञा, सा च मनोवृत्तिः, असौ यस्यास्ति स संज्ञी, समनस्क इत्यर्थः । तद्विपरीतस्तु असंझी, केवलं वर्त्तमान एवार्थे शब्दादौ शब्दादिसंज्ञानं अमनस्क इत्यर्थः, उभयप्रतिषेधितः ३१ संज्ञा० * केवली सिद्धो वेति । केवलिनि मनोवृत्तेरभावात् सिद्धे च शरीरमनसोरभावात् प्रतिषेधितः, शेष कण्ठयं ॥ प्रज्ञापनाप्रदेश व्याख्यायामेकत्रिंशत्तमपदव्याख्या समाप्ता ॥
३२ संयम०
३३अवधि० *+
श्रीप्रज्ञापनो
पांगम्
साम्प्रतं द्वात्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरपदे संज्ञापरिणामः प्रतिपादितः, इह तु चारित्रपरिणामविशेषः * संयमः प्रतिपाद्यते । इह चेदमादिसूत्रं 'जीवाण 'मित्यादि, तत्र हिंसादिनिवृत्तः संयतः तद्विपरीतस्तु असंयतः, हिंसादीनां | देशनिवृत्तः संयतासंयत इति, त्रितयप्रतिषेधितः सिद्धः, यस्मात् संयतादिपर्याया योगाश्रयाः तस्मात् योगाभावात् सिद्धः त्रितय* प्रतिषेधित इति ॥
प्रज्ञापनाप्रदेशव्याख्यायां द्वात्रिंशत्तमपदव्याख्या समाप्ता ॥
साम्प्रतं त्रयस्त्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरपदे चारित्रपरिणामविशेषः संयमः प्रतिपादितः, इह तु * ज्ञानपरिणामविशेषः खल्ववधिः प्रतिपाद्यते, इह चेयमवधिद्वारगाथा - “ भेदविसयसंठाणे अभितरबाहिरेय देसोही । ओहिस्स वह्नि* हाणी पडिवाती चेव अपडिवाती ॥ १ ॥” जत्थ उवरिमगेवेज्जाणं जहण्णेण अंगुलस्स असंखिजइभागो, तत्र यः संयतमनुष्यः समुत्पन्नजघन्यक्षेत्रावधिज्ञानी अविच्युतावधित्रैवेयकेषूत्पद्यते, तस्योपपातक्षेत्रप्राप्तस्य पारभविकोऽवधिरंगुलस्यासंख्येयभागविषयः, तद्भवजस्तु * सूत्राभिहित इति । शेषं कण्ठयं ॥
प्रज्ञापनाप्रदेशव्याख्यायां त्रयस्त्रिंशत्तमपदव्याख्या समाप्ता ॥
* संज्ञासंयमावध पदानि
॥६७॥

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96