Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 76
________________ समुद्धातपदम् प्रज्ञापनोपांगम् ३६ समु दात प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशः सह संश्लिष्टान् सातयतीत्यर्थः, उकं च-"पुयकयकम्मस(सा)डणं तु निजरा" इति, स च वेदनादिमेदेन सप्तधोक्तः, 'वेदनासमुद्धात' इत्यादि, तत्र वेदनासमुद्धातः असदेद्यकश्रियः, कषायसमुद्धातः कषायाख्यचारित्रमोहनीयकश्रियः, मारणंतियसमुद्धातः अन्तर्मुहुर्तशेषायुष्ककर्माश्रयः, वैकुर्विकतैजसाहारकसमुद्धानाः शरीरनामकश्रियाः, केवलिसमुद्घातस्तु सदसवेधशुभाशुभनामोचनीचैर्गोत्रकर्माश्रय इति । तत्र वेदनासमुद्घातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशातं करोति, कषायसमुद्घातसमुद्धतः कषायपुद्गलशातं, मारणंतियमुद्घातसमुद्धत आयुष्ककर्मपुद्गलघातं, वैकुर्विकसमुद्घातसमुद्धतस्तु जीवप्रदेशान् शरीराद् बहिः निष्काश्य शरीरविष्कम्भवाहल्यमात्रमायामतश्च संख्येयानि योजनानि दंडं निसृजति, | निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् सातयति, यथोक्तं-"वेउब्वियसमुग्घाएणं समोहणति, समोहणित्ता संखिज्जाई जोयणाई दंड निसिरति, निसिरित्ता अहाबायरे पोग्गले परिसाडेति "त्ति। एवं तैजसाहारकसमुद्घातावपि व्याख्येयौ। केवलिसमुद्घातेन समुद्भुतः केवली वेदनीयादिकर्मपुद्गलान् सातयति। शेषं कण्ठयं, यावत्, 'एगमेगस्स णं भंते ! नेग्इयस्स केवइया वेयणासमुग्घाया अतीता? इत्यादि, पुरेक्खडा, शेषं कण्ठयं, यावत् जहन्नेणं १-२-३ इत्यादि, प्रायः क्षीणायुषोऽनन्तरभवसिद्धयमानस्यैकादिसंभव इति । आहारकसमुग्धाता उक्कोसेणं तिन्त्रि, तदुवरि नियमा णरगं न गच्छति जस्स चत्तारि हवंति। शेषं सुगम। यावन्मनुष्येषु केवलिसमुद्घातचिन्तायां-उक्कोसेणं सतपुहुत्ताओ, तत्रैककाल एवोत्कृष्टपदे एतावन्तः केवलिनः समुद्घातमासादयंति । पगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ताए इत्यादि, केवड्या पुरेक्खडा ? कस्सइ अस्थि, कस्सइ नत्थि, तत्र आसन्नमृत्युवेदनासमुद्घातमप्राप्यात्यन्तिकमरणेन नरकादुद्वृत्य सेत्स्यति तस्य नास्ति, एकादिसंभव ऽपि अन्त्य तद्भवभाजामेव, अन्यथा यदि पुनरुत्पद्यते ततो जघन्यस्थितेरपि संख्येया एव भवंति, वक्ष्यति च-असुरकुमारस्य नारकेषु पुरस्कृतास्तु जघन्यपदेऽपि संख्येया इति, तच्चेदं सूत्रं- असुरकुमारस्स नेरयिएसु पुरेक्खडा * वेदणासमुग्धाता जस्स अस्थि सिय संखिज्जा' इत्यादि । नरकेषु जघन्यस्थितिषु उत्पन्नस्य नियमतः संख्येया एव वेदना समुद्घाता ॥७०॥ .

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96