Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
समुद्धातपदम्
प्रज्ञापनो
पांगम् ३६ समु
दात
सरीरं धणुसहस्सप्पमाणमुक्कोसं तह वि सो सरीराओ अभहिओ चेव भवति । शेषं सुगम । 'पगं महं' सविलेवणगंधसमुग्गमित्यादि,* गंधसमुग्गर्त अबदालेतित्ति-उग्धा (प्पा )डेतित्ति, इणामेवत्ति [पहिणति] एवमेवेत्यर्थः, 'तिहिं अच्छराणिवातेहि'-चप्पडियाहिं, गंधसमुग्गएण गहिएण दुतं दुतं हिंडतस्स गंधपोग्गलेहिं दीवे भरिजतित्ति, एस पत्थ भावत्थो। शेषं सुगम। यावत् 'विसमं समंकरेती'त्यादि, चउण्हं केवलिकम्माणं सब्बबहुपदेसतरं रढबंधणतरं च वेदनीयं विसमं तं माउगेण समं करेति, 'बंधणेहिं 'ति-1* पदेसेहिं, 'ठितिए'ति-वेदणकालेणंति । शेषं सुगमं । यावत् कतिसमएणं भंते ! भाउजीकरणे पण्णत्ते 'आउज्जीकरणं 'ति, आवर्जनमुपयोगः, व्यापारविशेषः, करणं क्रिया, वेद्यायुषः समरचनप्रयत्नकरणमित्यर्थः । शेषं सूत्रसिद्धं । यावत् 'ततो पच्छा' मणजोगंपि झुंजती'त्यादि, स हि भगवान् भवधारणीयकर्मसु वेदनीयनामगोत्रेषु आयुषस्समषिकेष्वचिन्त्यमाहात्म्यसमुद्घातसमीकृतेष्वन्तर्मुहूर्तभाविपरमपदः एतस्मिन् काले अनुत्तरोपपातिकादिना च देवेन मनसा पृष्टः मनःपुद्गलान् गृहीत्वा वाकपुद्गलान् गृहीत्वा कायचेष्टायुक्तखियोगी भवति । अधुना चैषां योगानां मनोवाकाययोगक्रमेणैव निरोधं करोति, ततः यस्मात् सयोगी सिध्यत्येव, यद्वन्मन्त्रेण विषं शरीरादेवं मनोयोग तितो विकरणधिया असंख्येयैः समयैः मनसः सर्व निरोधं करोति, एवं द्वीन्द्रियप्रथमपर्याप्तकवाग्योगमात्र-IN वाग्योगं ततः परं असंख्येयैः समयैः सर्व वाग्योगनिरोधं करोति, ततः सूक्ष्मपनकस्य प्रथमसमयोत्पन्नस्य यावान् काययोगस्तावद्धृष्ट्वा ततोऽधस्तादसंख्येयैः समयैरुच्छ्वासादिसर्वकार्य निरोधं कृत्वा देहविभागं च मुक्त्वाऽयोगिकेवली भवति, हस्वपंचाक्षरोचारणकालं, यावता कालेन 'क ख ग घ ङ' उच्चार्यन्ते । अत्र च काययोगनिरोधारम्भात् प्रभृति ध्यायत्यसौ सूक्ष्मक्रियाऽप्रतिपातिध्यान, सर्वनिरोधं कृत्वा शैलेशीकाले व्युच्छिन्नक्रियमप्रतिपातिध्यानं कायिकं, कुम्भकारप्रयुक्तचक्रभ्रमणव्यापारोपरमेऽपि चक्रभ्रमणानुवृत्तिवत् । शैलेशीशब्दस्य व्युत्पत्ति-शिलाभिनिर्वृत्तः शिलानामयं वेति अण्. शैल:-पर्वतः, शैलानामीश:-अधिपतिः शैलेशः-मेरुः, शैलेशस्येयं स्थिरता शैलेशी, स्थिरतासामान्यात् परमशुक्लध्याने वर्तमानः शैलेशीवानमेवोपचारादुच्यते स एव शैलेशी। तेषु च शैलेशीसमयेषु' पुधरइयं च णं कम्म 'ति आउज्जी [ जीवा न मेदोपचार] काले चेव गुणसेढी करेति, गुणप्पहाणा सेढीर,
॥७२॥

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96