Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
बध्नात्येव, कश्चिन्न बध्नातीत्यपि, सूक्ष्मसंपरायादिरिति । एतदुक्तं भवति पूर्वकर्म्म परिणामादुत्तरकर्म्मारम्भः यथा बीजादेवांकुरमूल* पर्णादीनामिति । ज्ञानावरणीयमुत्कर्षप्राप्तं दर्शनावरणीयं प्रपद्यते, दृश्यन्ते च शून्यवादिकुवादिनः कुशानवासिता विपरीतं पश्यन्त प्रज्ञापनो इति भावनीयं । शेषं सुगमं । यावत् 'जीवे णं बद्धस्से'त्यादि, नवरं 'वीरिओवग्गहिएहिं'ति जीववीर्योपगृही' तैरिति, तत्र जीवेण *+ पांगम् बद्धस्सेति रागद्वेषार्द्रत्वात् स्वामवस्थां प्रापितस्य, कर्म्मतया परिणतस्येत्यर्थः । 'पुट्ठस्स' आत्मप्रदेशैः सह लिष्टस्य । 'बद्धपासपुट्ट२३ कर्म० *स्से 'ति आवेष्टनपरिवेष्टनतया । संचितस्याबाधाकालातिक्रान्तस्योत्तरकालं निषक्तस्येत्यर्थः । चितस्य - बद्धस्य प्रदेशतया । उपचितस्य *
* कर्मप्रकृति पदम्
संक्रमणादिकरणायोग्यत्वेन व्यवस्थापितस्येत्यर्थः । इदानीं क्रमं दर्शयति- 'आवागपत्तस्स' इत्यादि, आवागपत्तस्स प्रथमपाकाभि- ** मुखं प्रथमं तत् कर्म्म, ततो विपाकः, ततः पाकफलनिष्पत्तिः, ततः स्वरूपाभिव्यक्तिरुदयः, अत्र त्रपुष्याः फलमुदाहरणं, यथा पुषीफलस्य पुष्पदौर्हृदादि तत्सदृश आपाकः, आङ्शब्दः आदिकर्म्मणि यथा आरब्धमिति । तस्यैव यदा वृंतसंबद्धमेव नाल, काठिन्यश्यामादिगुणपरिणतं तत्सदृशो विपाकः । तदेव यदा आयत्तवृत्तादिना संस्थानविशेषेण परिणतं तत्- * सदृशं फलं । तदेव यदा तद्बीजकाटिन्यादिना पाकेन परिणतं तत्सदृशं उदयः । तत् पुनर्जीवेन कथं निबद्धमिति तत आह* 'जीवेण कयस्स' जीव उपयोगस्वाभाव्याद्रागादिपरिणत्या करोति, नान्यथा, किन्तु कर्म्मबन्धनबद्ध पव, तथाचोक्तं- "जीवस्तु कर्म
बन्धनबद्धो वीरस्य भगवतः कर्ता । संतत्याऽनाद्यं च तदिष्टं कम्र्मात्मनः कर्तु ॥ १ ॥ "रिति । निर्वर्त्तितमिति यदपि बन्ध- * कालेऽविशिष्टज्ञानावरणीयादिकर्म्मयोगपुद्गलग्रहणं करोति तथाऽप्यनाभोगिकेन वीर्येण ज्ञानावरणादितया यद् व्यवस्थापनं तन्नि *वर्त्तितमित्युच्यते, रसादिसप्तधातुतया व्यवस्थापनं आहारस्येव । परिणामितमिति, विशेषप्रत्ययैः प्रद्वेषनिह्नवादिभिः बीजमिवाङ्कुरत्वेन । स्वयमुदीर्यते अतिप्रकर्षान्निरपेक्षं, परेणोदीर्यते यत् सापेक्षं । 'गतिं प्राप्य' नारकादिर्गतिः, तत्र असातोदयो यथा नारकाणां तीव्रो न तथा तिर्यगादीनां । 'स्थितिं प्राप्य', तत्रापि स्थितिप्रकर्षाः, 'भवं प्राप्य', यथा सत्यपि देवभवत्वे सामा* निकत्वाभियोग्यत्वादिर्विशेषः, अयं परनिरपेक्ष उदयो गत्यादिः । 'पोग्गलं पप्प' पोग्गलपरिणामं च पप्पत्ति, अयं सापेक्षः, तत्र
॥४७॥

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96