Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 58
________________ सामान्यार्थावबोधः केवलदर्शनमिति । वेद्यं सातमसातं वा यस्यादयात् शारीरं मानसं वा सुखं वेदयते तत् सातं तद्विपरीत* मसात । मोहो द्विविधः - दर्शनमोहश्चारित्रमोहश्च, दर्शनमोहनीयं बन्धं प्रति एकविधं, सत्कर्म्मतथा त्रिविधं सम्यक्त्वं मिथ्यात्वं कषायाः षोडश संयोजनादयः, “संयोजयति यन्नरमनन्तसम्यग्मिथ्यात्वमिति । चारित्रमोहनीयं कषाया नोकषायाश्च तत्र पांगम् संख्यैर्भवैः कषायास्ते । संयोजनताऽनन्तानुबंधिता चाप्यतस्तेषां ॥ १ ॥" इह सर्वप्रत्याख्यानं देशप्रत्याख्यानं वा न येषामुदये २३ कर्म० * लभ्यते ते भवन्त्यप्रत्याख्यानिनः, सर्वनिषेधवचनोऽयं नम् । आवृण्वन्ति प्रत्याख्यानं स्वल्पमपि येन जीवस्य तेन प्रत्याख्यानं न लभ्यत इति प्रत्याख्यानावरणाः । आह-न येषामुदये प्रत्याख्यानमस्तीति नञ् प्रतिषेधात् अप्रत्याख्यानाः, इहापि चावरणशब्दात् * प्रत्याख्यानप्रतिषेध इति क एषां प्रतिविशेषः?, उच्यते, ननूक्तं तत्र नञ् सर्वनिषेधवचनत्वात् सर्वप्रत्याख्यानविद्यातिनस्ते, इह पुनराङ् ** मर्यादायां ईषदर्थे च वर्त्तत इति न सर्वनिषेधः, किं तर्हि ? सर्वविरतेरेव निषेधो गम्यते, न देशविरतेरिति तथा चोक्तं- "सर्व प्रत्याख्यानं येनावृण्वन्ति तदभिलषतोऽपि । तेन प्रत्याख्यानावरणास्ते निर्विशेषोक्त्या ॥ १ ॥ तत्राङ् मर्यादायां तावद्विरतिप्रत्या* ख्यानावरणा न देशविरतेरिति, प्रत्याख्यानावरणाः, ईषदर्थेऽपि प्रत्याख्यानस्य ईषद् वरणाः प्रत्याख्यानावरणाः, यतो देशतः * ** प्रत्याख्यानेऽपि नास्त्येव भूयसीनां विरतिरतस्तत् सम्बन्धिनीमीषद् विरता आवृण्वन्तीति तन्मात्रावरणाः । आह- किमेते विद्यमान मावृण्वन्ति प्रत्याख्यानमुताविद्यमानमिति ?, उच्यते, नासतः खरविषाणस्येवावरणमस्तीत्यतो नाविद्यमानं न च विद्यमानं * अभव्यादीनामपि सविरमणप्रसंगात्, परिशेषात् प्रत्याख्यानपरिणतेरावरणाः प्रत्याख्यानावरणाः, परिणतिशब्दलोपात् । ईषत् परी- * पहादिसंपाते ज्वलनाः संज्वलनाः, संशब्दस्य ईषदर्थत्वात्, तथा च " संज्वलयन्ति यतिं यत् संविग्नं सर्वपापविरतमपि । तस्मात् संज्वलना इत्यप्रशमकरा निरुच्यन्ते ॥ १ ॥ " आद्यकषायत्रयविकल्पानुवर्त्तित्वान्नोकषायाः, यतः क्षीणेषु द्वादशसु तेषामभावः, ते * च हास्यादयः, हास्योदयात् सनिमित्तमनिमित्तं वा हसति शोकोदयात् परिदेवनादि, रतिः प्रीतिर्बाह्याभ्यन्तरेषु वस्तुषु एतेष्वेव * अप्रीतिररतिः, भयं त्रासः चेतनाचेतनेषु वस्तुषु व्यलीकता - जुगुप्सा, स्त्रियाः स्त्रीवेदोदयात् पुरुषाभिलाषः पुंसश्च पुंवेदोदयात् श्री प्रज्ञापनो कर्म प्रकृति पदम् ॥५२॥

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96