Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 61
________________ भवति । पर्याप्तनाम - यदुदयादिन्द्रियादिनिष्पत्तिर्भवति । तद्विपरीतमपर्याप्तकं, प्रत्येकशरीरनाम - यदुदयादेको जीवः खल्वेक*मेव शरीरं निवर्त्तयति । साधारणनाम-यदुदयाद् बहवो जीवाः खलु एकमेव शरीरं निवर्त्तयति । स्थिरनाम यदु- * दयाच्छरीरावयवस्थैर्य शिरोऽस्थिदन्तानां भवति । अस्थिरनाम यदुदयादवयवानामेव मृदुता भवति कर्णजिह्वादीनां । शुभनाम यदुदयाच्छरीरावयवानां शुभता, यथा शिरसः, शिरसा स्पृष्टस्तुष्यति, पादादिरशुभस्तेन स्पृष्टो रुष्यति । सुभग२३ कर्म० * नाम यदुदयात् कमनीयता । तद्विपरीतं दुमगनाम सुस्रनाम यदुदयात् सौस्वयं भवति, श्रोतॄणां श्रुत्वा यत्र प्रीतिरुत्पद्यते । तद्विपरीतं दुःस्वरनाम आदेयनाम यदुदयात् यश्चेष्टते भाषते वा तत् सर्व लोकः प्रमाणीकरोति । तद्विपरीतमनादेयं । यशःकीर्तिनाम यदुदयात् कीर्त्यते संशब्द्यते गुणवानिति । तद्विपरीतमयशः कीर्त्तिनाम । निर्माणनाम यदुदयात् सर्व* जीवानां जातौ अंगोपांगविशिष्टता भवति । तीर्थकरनाम यदुदयात् सदेवमनुजासुरस्य लोकस्य पूज्यो भवति । गोत्रमुच्चैर्गोत्रं * यदुदयादशानी विरूपो निर्धनोऽपि सत्कुलमात्रादेव पूज्यते । नीचैर्गोत्रं ज्ञानादिसम्पन्नोऽपि यदुद्द्यान्निन्द्यते । दानान्तरायं-सति * दातव्ये प्रतिग्राहके च दानफलं च विजानन् यदुदयात् नोत्सहते दातुं तद् दानान्तरायं । यत् सर्वकालं दददपि अन्यस्य याच * यतो नोत्सहते दातुं तत्तस्य लाभान्तरायिकोदयः । सकृत् भुज्यते इति भोगः- आहार माल्यादिः, सति विभवे प्रतिविशिष्टं यदुदयान भुंक्ते तद्भोगान्तरायिकं । पुनः पुनः भुज्यत इत्युपभोगो-वस्त्रालंकारादि, यदुदयानोपभुंक्ते तदुपभोगान्तरायं । वीर्य शक्तिः चेष्टा. निरुजो वयस्थाश्चाल्पबला यदुदयाद् भवन्ति तद् वीर्यान्तरायमिति । इदानीं मूलोत्तरप्रकृतीनामुत्कृष्टजघन्यस्थितिबन्धपरिज्ञानार्थं * पृच्छति - णाणावरणिजस्स णं भंते! कम्मस्स केवहय' मित्यादि, प्रश्नः, निर्वचनं 'तीसं सागरोवमकोडीओ', इयता सिद्धे इदमपृष्टस्य * व्याकरणं - 'तिनिय वाससहस्साइं अबाहा, अबाहुणिया कम्मठिती कम्मनिसेगो' इति, किमर्थं ? उच्यते, स्थितिद्वैविध्यप्रदर्शयता बन्धकाले आत्मा अविशिष्टमेव कर्म्मपुद्गलोपादानं कृत्वा उत्तरकालं ज्ञानावरणीयादिकर्म्मणां स्वस्वाबाधाकालं मुक्त्वा ज्ञाना- * * वरणीयादिप्रकृतिविभागतया अनाभोगिकेन वीर्येण उदयसहितं तद्दलीकं निषिञ्चति, अतो द्विविधा स्थितिः कर्म्मत्वापादनमात्ररूपा श्री प्रज्ञापनोपांगम् कर्म प्रकृतिपदम् ॥५५॥

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96