Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 59
________________ श्रीप्रज्ञापनोपांगम् २३ कर्म व्यभिलाषः, नपुंसकस्य नपुंसकवेदोदयात् स्त्रीपुंसाभिलाषिता । आयुष्कं नारकादिचतुर्विधं । गतिनाम-गतिपर्यायेणात्मा गतिनामकर्मोदयात् आभिमुख्येन परिणतो गच्छतीति गतिः, सा चतुर्विधेत्यादि । समानजातीयं यत् सामान्यं सा जातिः, यथा पकेन्द्रियत्वं || कम सबैकेन्द्रियाणां सामान्य जातिः। एवं सर्वत्र । ननु च स्पर्शनेन्द्रियावरणक्षयोपशमसद्भावादेकोन्द्रयो भवति, नाम च औदयिको पदम् भावः, कथमेकेन्द्रियत्वं घटते ?, सत्यमेतत् , तथापि यद्यस्य जातिनाम न स्यात्तत एकेन्द्रिय इति सज्ञां न लभते, तस्मात् सज्ञा. कारणं यत् कर्म तन्नामेत्युच्यते, तचैकेन्द्रियजातिनामादि पंचविधं । शीर्यत इति शरीरं, तश्चौदारिकादि पंचविधं, तत्र उदारं-प्रधान तीर्थंकरगणधरशरीराणि प्रतीत्य, ओरालमपि च विस्तरालं विशालमिति, यस्मात् समधिकयोजनसहनप्रमाणं, ओरालमिति वा स्वल्पप्रदेशोपचितत्वाच मेण्डवत् तद्योग्यपुद्गलग्रहणकारणं यत् कर्म, तत् औदारिकशरीरनाम पुद्गलविपाकि । एवं सर्वत्र । विविधा विशिष्टा वा क्रिया विक्रिया। आहियते दयादिकारणानुद्दिश्य गृह्यत इत्यर्थः, कार्यपरिसमाप्तेश्च पुनर्मुच्यते याचिोपस्कारवत् । तेजोगुणोपेतद्रव्यसमर्थ तैजसमुष्णगुणं, तदेव यदोत्तरलब्धिरुत्पद्यते तदा निसृजति, गोशालवत् , यस्योत्तरगुणलब्धिर्नास्ति तस्याहारपाचनं । सर्वकर्माधारभूतं कार्मण, यथा कुंडं वदरादीनां, सर्वकर्मप्रसवसमर्थ वा, यथा बीजमङ्खरादीनां । पुदलरचनाविशेषः संघातः, तेषामेवौदारिकादियोग्यानां पुद्गलानां गृहीतानां यस्य कर्मण उदयात् शरीरं घनीभवति तत् संघातनाम पुद्गलविपाकि, तच्चौदारिकादिभेदेन पंचविधं । बध्यतेऽनेनेति बन्धनं, तत् पुनः सर्वात्मप्रदेशगृहीतानां गृह्यमाणानां च पुद्गलानां सम्बन्धजनकं अन्यशरीरपुद्गला सह सम्बन्धो यस्य कर्मण उदयाद् भवति तत् बंधननामेत्युच्यते, विद्यते तत् कर्म यन्निमित्तं द्वयादिसंयोगापत्तिर्भवति, यथा काष्ठद्वयमेदैकत्वकरणे जतु कारणं, औदारिकादिशरीरमेदवत्तदपि पंचविधं । | संस्थानमाकृतिः, तथैव गृहीतसंघातितदेहपुद्गलेषु संस्थितिविशेषो यस्य कर्मण उदयाद् भवति, तत् संस्थाननाम षड्विधं समचतुरनादि । मानोन्मानप्रमाणानि अनतिरिक्तान्यङ्गोपाङ्गानि च यस्मिन् शरीरसंस्थाने तत् संस्थानं समचतुरनं । नामित | उपरि सर्वावयवाः चतुरस्रलक्षणाविसंवादिनः अधस्तु तदनुरूपं न भवति तत् न्यग्रोधं । नामितोऽधः सर्वावयवाः सम ॥५३॥

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96