Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 60
________________ कर्मप्रकृति पदम् प्रज्ञापनोपांगम् २३ कर्म चतुरस्रलक्षणाविसंवादिनः, उपरि तु तदनुरूपं न भवति तत् साति(दि)। ग्रीवा हस्तपादौ च [आदि लक्षणयुक्ताः, संक्षिप्तविकृतमध्यं कोष्ठं कुजलक्षणयुक्तं कोष्ठं ग्रीवायुपरि हस्तपादौ [वाच] लक्षणहीना वामनं । कुब्जमेतद्विपरीतं । हस्तपादाघवयवाः प्रायः प्रमाणविसंवादिनस्तद् हुण्डमित्युच्यते । "तुलं वित्थरबहुलं उस्सेहबहुलं च मडहकोटुं च । हेटिळकायमबह सव्वत्थ असंठियं हुंडं ॥१॥" अंगानि-हस्तपादादीनि, उपाङ्गानि-अङ्गल्यादीनि अङ्गोपाङ्गानि च श्रोत्रघ्राणादीनि यस्य कर्मण उदयाग्निर्वय॑न्ते तदङ्गोपाङ्गनाम । मर्कटबन्धस्थानीयमुभयोः पार्श्वयोरस्थि नाराचं, ऋषभः-पट्ट, वज्रं-कीलिका, वजं च ऋषभश्च नाराचं च यत्रास्ति तद् वज्रर्षभनाराचं संहननं, मर्कटपट्टकीलिकारचनायुक्तः प्रथमोऽस्थिबन्धः, मर्कटकीलिकाभ्यो द्वितीयः, मर्कटसंयुक्तस्तृतीयः, मकटैकदेशबन्धेन द्वितीयपावें कीलिकासम्बन्धश्चतुर्थः अंगुलि(अस्थि)द्वयस्य युक्तस्य मध्ये कीलिकैव दत्ता कीलिकासंहननं, अस्थीनि चर्मणा निकाचितानि केवलमेवेति असंप्राप्तसम्बन्ध सेवात, नित्यं परिशीलनामाकांक्षति स्नेहपानादि, एवंविधास्थिसंघातकारणं संहनननाम, औदारिकविशेषविषयमेव । वर्णनाम-औदारिकवैक्रियादिषु शरीरेषु यस्योदयात् कृष्णादिवर्णनिवृत्तिर्भवतीति । गन्धनाम-तेष्वेव शरीरावयवेषु सुगन्धता दुर्गन्धता वा यस्य कर्मण उदयात् । रसनाम-तेष्वेव शरीरावयवेषु तिक्तादिरसविशेषः यस्योदयात् तत् रसनाम । तेष्वेवावयवेषु कक्खडादिस्पर्शविशेषो यदुदयात् तत् स्पर्शनामाष्टविध । आणुपुब्बी-परिवाडी आकाशश्रेणीनां यदुदये गमनं जीवस्य भवति विग्रहगती तदानुपूर्वीनाम, नारकादिचतुर्विधं । शरीरसम्बन्धादगुरुलघु आत्मानं नामयति शरीरं न गुरू नापि लध्वेति तदगुरुलघु । उपघातनाम-यदुदयात् उपहन्यते । पराघातनाम-यत् परान् आहति । उच्छ्वासनाम-यदुदयादुच्छ्वासनिश्वासनिवृत्तिर्भवति । आतपनाम-पृथिवीकाये आदित्यमण्डलादौ । उद्योतनाम-अनुष्णः प्रकाशः खद्योतरत्नादिषु, न पुनरग्नेस्तस्योष्णस्पर्शनामोदयादौष्ण्यं, रूपं च लोहितनामोदयात् । विहायोगतिश्चंक्रमणं, नारकादीनां यदुदयाद् विहायोगतिनाम, तद्विविधं प्रशस्ताप्रशस्तमेदात्, तत्र प्रशस्तं हंसगजवृषभादीनाम्, अप्रशस्तं तूष्ट्रादीनाम् । असनाम-यदुदयाचलना स्पन्दनं च भवति । स्थावरनाम-यदुदयादस्पन्दो भवति । बादरं-स्थूलं यदुदयात् एकेन्द्रियकं शरीरं भवति । सूक्ष्मनाम-यदुदयादतीन्द्रियं शरीरं | ॥५४॥

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96