Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
श्रीप्रज्ञापनोपांगम् २३ कर्म
साम्प्रतं त्रयोविंशतितममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरपदे नारकादिगतिपरिणामपरिणतानां जीवानां प्राणातिपातादि क्रियाविशेषश्चिन्तितः, इह पुनः कर्मबन्धादिपरिणामविशेषश्चिन्त्यत इति । इह चेयमधिकारद्वारगाथा-"कति पगडी कह
|* कर्मप्रकृति बंधति कतिहिवि ठाणेहिं बंधए जीवो। कति वेदेह य पगडी अणुभावो कतिविहो कस्स ॥ १॥" 'कति णं भंते ! कम्मपगडीओं'
पदम् इत्यादि, आह-उफ्तमेव क्रियापदे कति प्रकृतय इति-इह तु किमर्थं प्रकृतिसंख्याऽर्थः प्रश्नः?, उच्यते, अस्त्यत्र विशेषः-तत्रोक्तं शानावरणीयादि कर्म बनन् जीवः कतिमिः क्रियाभिर्युज्यते ?, क्रियाश्च प्राणातिपातहेतवः, प्राणातिपातश्च बाह्य ज्ञानावरणीयादिकर्मबंधकारणं, कर्मबन्धः कार्य; इह तु शानावरणीयादिकर्मबन्ध पवान्तरं कर्मबन्धकारणमित्ययं विशेषः । तथाचोकं "पुवभणितं तुजं भण्णती पुणो तत्थ- कारणं अस्थि । पडिसेह अणुण्णा वा कारण(हेउ)विसेसोपलभो वा ॥ १॥" बंधविशेषप्रतिपादनार्थ, न केवलं कायिकी क्रिया साम्परायिकबन्धस्य कारणं, ईपिथबंधस्य च । झानावरणीयादि पुनः साम्परायिकस्यैव, क्षीणावरणस्य केवलिनः कायक्रियानिमित्त ईर्यापथबंध एव । वाङ्मनोयोगावपि काययोगविशेष एव । अथ कोऽयं शानावरणीयादिकर्मक्रमनियमः ?, उच्यते, यस्मात् मानस्वतन्त्र आत्मा, तस्य शानस्वतन्त्रस्य आत्मनः स्वभावोपघाति शान(नावरणं)दर्शनावरणं च । ज्ञानदर्शनावरणयोः कथं प्राक् पश्चाद्वा?, उच्यते, यस्माच्छुभाशुभप्रकृतीनां शुभाशुभानुभावबन्धकाले साकारोपयुक्तस्य एकद्वित्रिचतुःस्थानिकरसविशेषनिवर्तनयोग्यान्यध्यवसायस्थानानि लभ्यन्ते, अनाकारोपयुक्तस्य शुभाशुभप्रकृतीनां शुभाशुभानुभाव (बन्धकाले) द्विस्थानिकरसनिवर्तकान्येव, साकारोपयोगश्च ज्ञानमित्यतो ज्ञानावरणं प्रथम, तथाचोक्तं कर्मप्रकृतिसंग्रहणिकायाम्| "अणगारप्पाउग्गा बिठाणगया उ दुविहपगडीणं । सागारा सव्वत्थवि" त्ति, पतदुक्तं भवति-जीवस्स संकिलेसपरिणयस्स विसोहियापरिणयस्स वा अणगारोवउत्तस्स सुभासुभपगडीणं सुभासुभदुट्ठाणियरसनिवत्तियाणि चेव अज्झवसाणठाणाणि लभंति, | 'दुविहपगडीणं' सुभाणं असुभाणं च 'सागारा सव्वत्थवी'ति सागारोवउत्तस्स सुभासुभपगडीणं सुभासुभएगठाणियदुट्ठाणियतिहाणियचउट्टाणियरसनिव्वत्तयाणि सव्वत्थ अज्झवसाणाणि लम्भंति । ततो वेध, यस्मात् सर्वमेव हि कर्म अनुभवकाले सुख
॥४५॥

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96