Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
पदम्
दुःखवेदनारूपेणामिव्यज्यते । तत्र मानावरणविपाकः सुखदुःखरूपः, कथं ?, यस्मात् उक्तं "सम्भावस्स परित्राणं परतो य सुहित्तणं ।
पंचिंदियवसत्तं च पज्जत्तं दुखकारणं ॥१॥" सुखरूपस्तु व्यावाधाभावश्च सर्वशत्वे न भवति परमसुखी व्याबाधाभावस्तु कर्मप्रकृति श्री
स्वस्थस्य, न तु सुखं । मोहनीयविपाकोऽपि सुखादिरूपः । देवमनुष्यायुषः सुखरूपः, शेषस्तु दुःखरूपः । तथा शुभनामकर्मप्रज्ञापनो
विपाकः सुखरूपः, अशुभनामकर्मविपाको दुःखरूपः। गोत्रविपाकः उश्चैर्गोत्रं सुखरूपः, नीचर्गोत्रं दुःखरूपः । विघ्नविपाको दानादि, पांगम्
दानं स्थानव्ययात् सुखरूपं, अस्थानव्ययाञ्चौरादिकात् प्रत्यपायानुभवाद् दुःखरूपः, इच्छितद्रव्यलाभात् सुखं तद्विपरीताददुःखं, २३ कर्म|* (इष्टाहारादेः सुखं अन्यथाभूतात् दुःख), अभीष्टवस्त्रालंकाराद्युपभोगात् सुखं, तद्विपरीताद्दुखं, बलसम्पन्नात् सुखं तद्धीनत्वाद्
दुःखमिति । ततो मोहनीयं, यस्माद् इष्टानिष्टविषयसंबंधात् सुखदुखे, ते च रागद्वेषाभ्यां भवतः, रागद्वेषौ मोहनीयमिति, तत आयुष्कं, बह्वारम्भादीनां मोहनीयोदयात् । ततो नाम, नरकाद्यायुष्कसहोदयत्वान्नारकादिगतिनामादीनां । ततश्च गोत्रं, नारकादिभवाश्रयाभिव्यंग्यत्वात् । ततो विघ्नं, उच्चैःकुलोत्पन्नस्य दानलाभादिभिरभिव्यज्यते रा(ग)जप्रभृतीनां, नीचैःकुलोत्पन्नस्य तु विपर्यय इति । एवमेतेषां क्रम उक्तः । तत्र ज्ञानावरणीयमिति, मानमावियते येन कर्मणा करणेऽनीयरि ज्ञानावरणीयं विशेषावधारणमित्यर्थः । दर्शनावरणीयं सामान्यावबोधस्य । तथा वेद्यत इति कर्मणि अनीयरि वेदनीयं । मुह्यतेऽनेन मोहनीयं, सर्वत्र अनीयर् । तथा इण् गतौ पति याति चेत्यायुः, औणादिक उस् जनेरुसीति पतेणिश्चेति वृद्धिः । 'णमः प्रत्वे' गत्यादीन् शुभाशुभान् नमयतीति नाम । गूयत इति गोत्रं । अन्तरायो-विघ्नः, अन्तराये भवं अन्तरायिकं । शेषमुत्तानार्थ । यावत् | 'कहण्णं भंते ! जीवे अट्टकम्मपगडीओ बंधती'त्यादि, अत्र निर्वचनं 'गोयमा ! णाणावरणिज्जस्सेत्यादि, शानावरणीयस्य कर्मण उदयेन, किं?, दर्शनावरणीयं कर्म निर्गच्छति, निश्चयेन गच्छति निर्गच्छति विशिष्टोदयापनमासादयतीत्यर्थः । तथा दर्शनावरणीयस्य कर्मण उदयेन दर्शनमोहनीयं कर्म निर्गच्छति, विपाकावस्थं करोतीत्यर्थः, अस्यैवोदयेन मिथ्यात्वं निर्गच्छति, ततश्च मिथ्या-*
॥४६॥ . | त्वेन उदीर्णेन एवं खलु जीवोऽष्टकर्मप्रकृतीबध्नाति, खलुशब्दःप्रायोवृत्त्यर्थप्रदर्शनार्थः, प्रायस्तावदेवमन्यथा सम्यग्दृष्टिरपि कश्चिद्

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96