Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
श्री
प्रज्ञापनो
पांगम् २२ क्रिया
इत्यायोजिकाः, शेषं पूर्ववदेव । न केवलं षट् कायादयः प्राणातिपातादिक्रियाहेतव एव, किंतु तद्विरमणे विवक्षितहेतवोऽपि भवन्तीत्यतः पृच्छति-'अत्थि णं भंते ! जीवाणं पाणाइवायवेरमणे कज्जा ? हंता कज्जई' इत्यादि, एवं 'जाव मिच्छादसणसल्लवेरमणे णं
क्रियापदम् तथा पाणाइवायविरयस्स बंधो अस्ति नास्तीति पृच्छति-'पाणाइवाय(विरए)वेरमणे णं भंते ! जीवे कति कम्मपगडीओ बंधती'त्यादि, आह-कृथं पुनर्विरतस्य बंधः? कोऽभिप्रायः ? यदि विरतिबन्धहेतुः स्यात्ततो निर्मोक्षप्रसङ्गः, यच्चोक्तम्-“सम्यग्दर्शनशानचारित्राणि मोक्षमार्ग" इत्येतद्धीयते, उच्यते, न विरतिबन्धहेतुः, किंतु विरतस्य कषाययोगा बन्धकारणं देवायुष्कादीनां शुभप्रकृतीनां, तथा चोक्तं "तहारूवं णं भंते ! समणं वा माहणं वा पज्जुवासमाणस्स किंफला पज्जुवासणा? सवणफला' इत्यादि, जति णं भंते ! तहारूवस्स समणस्स वा २ पज्जुवासणा सवणफला तं चेव, किंपत्तिएणं भंते! देवा देवलोपसु उववजंति ? कम्मसंगियाए अज्जो! देवा देवलोपसु उववजंति, पुवतवसंजमेणं, सामाइयछेओवट्ठावणियपरिहारविसुद्धीयाइसु कसाया संभवंतीति, अतो विरतो बंधति । आरंभिया प्रमत्तसंजमस्स, कहं ? उच्यते यस्मादुक्तं-" संरंभो संकप्पो परितावकरो भवे समारंभो। आरंभो उद्दवओ सुद्धणयाणं तु सब्वेसि ॥१॥" तस्य च संज्वलनकषायोदयात् प्रमत्तत्वं, प्रमत्तत्वाच सांपरायिकबन्धः । मायावत्तिया अप्रमत्त-IN संयतस्य कथं? उच्यते-प्रवचनोडाहाच्छादनाथे बल्लीकरणसमुद्देशादिषु, तत्प्रत्ययबन्धः ईर्यापथः । शेषाः कण्ठ्याः । प्राणातिपात- | विरताः संयतमनुष्या पव, ते च सप्तविधबंधका आयुर्वन्धरहिताः, आयुष्कसहिता अष्टविधबंधकाः, षविधबंधका उभयश्रेणिप्रतिपन्नाः मोहायुर्वन्धरहिताः, एकविधबन्धका उपशान्तक्षीणकषायसयोगिकेवलिनः सद्वेद्यबन्धं प्रति, पतेषु यत्रैकवचनं तत्रोपयुज्य वक्तव्यं । अल्पबहुत्वाधिकारे-सव्वथोवाओ मिच्छादसणवत्तियाओ, कथ! मिथ्यादृष्टीनामेवेति । अपञ्चक्खाणकिरियाओ विसेसाहियाओ, येन असंयतस्स चेव मिच्छादृष्टेश्चेति, अतो विशेषाधिकाः, पारिग्रहिकी विशेषाधिका, येन देशविरतानां पूर्वयोश्च, आरम्भिकी विशेषाधिका, येन प्रमत्तसंयतस्यापि भवति पूर्वेषां च, मायाप्रत्ययिकी विशेषाधिका, येनाप्रमत्तसंयतस्यापि भवति पूर्वेषां च मिथ्यादृष्टिप्रभृतीनामिति ॥
॥४४॥ ॥ प्रज्ञापनाप्रदेशव्याख्यायां द्वाविंशतितमपदव्याख्या समाप्तेति ।।

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96