Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
*
इन्द्रियपदे उद्देशः१
***
श्री- Mस्त्येव, शेषं गताथै, 'जाव पविट्ठाई सुणेति' तत्र प्रवेशो मुखे नासिकायां कर्णबिले वा भवन्ति, इन्द्रियविषयाधिकारे अयमपि प्रश्नः प्रज्ञापनो- अणगारस्स णं भंते इत्यादि, भावित आत्मा शानदर्शनचारित्रैस्तपोविशेषेश्च येन स भावितात्मा तस्य चरमाः शैलेशीकालान्त्य
समये निर्जरापुद्गलाः अपगतकर्मभावास्तेषां, 'अणतं' अन्यत्वं द्वयोरनगारयोः सम्बन्धिनोः ये पुद्गलाः, नानात्वं वर्णादिकृतं एकस्यैव १५इन्दिय० 'ओमत्तं' ऊनता, तुच्छत्तं निस्सारता, गुरुलघुत्वे प्रतीते, कापुनरस्य प्रश्नस्यावकाशः? उच्यते, यस्मादुक्तं स्पृष्टान्येव शब्दादिद्र
व्याणि शृणोतीत्यादि, सर्वलोकस्पर्शित्वाश्चैषां निर्जरापुद्गलानां स्पर्शनप्रवेशने स्त इत्यतः प्रश्नः, छद्मस्थग्रहणं केवलिव्युदासार्थ स्यात् , केवली सर्वैरेवात्मशरीरप्रदेशैर्जानाति पश्यति च, उक्तं च "सव्वतो जाणति केवली सब्वतो पासति" तथा चोक्तं “समस्तसर्वाक्षगुणं निरक्ष" मिति, छमस्थः पुनरङ्गोपाङ्गनामकर्मविशेषसंस्कृतैरेवेन्द्रियद्वारैर्जानाति पश्यति च, अतः छद्मस्थग्रहणं, तथा निर्वचनं "देवेऽवि य णं अत्थेगइए जाणति पासति" इति, यस्माद्देवानां मनुष्येभ्यः पटुतराणीन्द्रियाणि भवन्ति, अतो देवोऽपि न (सों) जानाति न पश्यति च, किमुत मनुष्य इति, सर्वलोकस्पर्शित्वाच निर्जरापुद्गलानामपि प्रश्नः, 'रइयाणं भंते!' इत्यादि गतार्थ, मनुष्यप्रश्ने 'सन्निभूता असन्निभूता' इति, इह संझिग्रहणादवधिज्ञानी गृह्यते यस्य ते कार्मणशरीरपुद्गला विषयः, 'एवामेवासण्णिया मायिमिच्छादिट्ठी उववण्णा' इति जाव उपरिमगेवेज्जा, यद्यप्यारातीयेषु कल्पेषु प्रैवेयकेषु च सम्यग्दृष्टयः सन्ति, तथापि तेषां कार्मणशरीरपुद्गला न विषयः, अमायिसम्मदिट्ठी उबवण्णया अणुत्तराते कहं जाणंति फासंति वा? उच्यते, उक्तमवधिज्ञानविषयाधिकारे “संखिज कम्मदव्वे लोगे थोवूणगं पलिय" मिति, कार्मणशरीरद्रव्याणि पश्यन् क्षेत्रतो लोकस्य संख्येयान् भागान् पश्यति, अनुत्तराश्च सम्पूर्णलोकनाली पश्यन्तीत्युक्तं, अत्यंगतिया वेमाणिया जाणंति पासंति आहारेति, सर्वत्र चाहारयन्तीति ओजाहारो गृह्यते, यस्मादुक्तं "सरीरेणोजाहारो तयायफासेण लोमआहारो। पक्खेवाहारो पुण कावलीओ होति नायव्वो
॥१॥” इति, इन्द्रियविषयाधिकार-एवायं प्रश्नः 'अहायं पेहमाण' इत्यादि, 'अहायमिति' आत्मशब्देन शरीरमभिधीयते, पलिभाग: | प्रतिबिम्बप्रायत्वात् पुद्गलानां भासुरद्रव्ये आदर्श प्रतिविम्ब संक्रान्तं पश्यति, यस्मादुक्कं "सामा उदिया छाया अभासुरगता णिसिं
***空*
4***
॥१८॥

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96