Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
*
श्री- प्रज्ञापनो
पांगम् २१शरीर० २२ क्रिया
*
पावदच्युतदेवस्य अधस्तिर्यक् कंठोक्तं । अवेयकादयो वन्दनाद्यपि तत्रस्था पब कुर्वन्ति तेन इहानागमनादंगुलासंख्येयभागासंभव |*
| शरीरपद इति । शेषं सुगमं यावत् ओरालियसरीरस्स पोग्गला चिजंति णिव्वापारणं छदिसंति, जत्थ ओरालियसरीरिणो जीवस्य छसुवि दिसासु पोग्गलाणं संभवो अत्थि, वाघापणं सिय तिदिसिं चउदिसिं पंचदिसिं चेति, सुहुमनिमओयजीवाणं लोगते अवगाहणं जत्थ
क्रियापदं च उहुं लोगागासं णस्थि, तिरियपि पुग्वेण णस्थि, उत्तरेण णस्थि, अहे दक्खिणेणं अवरेण वि अत्थि, तत्थ तिदिसिं, जत्थ उत्तरेण तत्थ चउदिसिं, जत्थ पुब्वेण अस्थि तत्थ पंचदिसिं, अयं व्याघातः लोकान्ते स्थितस्य । शेषं सुगमं यावत् तेयाकम्माणं च ओरालियसरीरजहण्णोगाहणाओ विसेसाहिया, कहं ? मारणंतियसमुग्धापणं समोहतस्स पुब्बसरीराओ अन्नं सरीरं गिण्हंतस्स जहण्णावगाहेऽवि तदंतरालं तदपि ब्याप्तमिति विशेषाधिकाः, शेषं गतार्थम् ॥
॥ प्रज्ञापनांप्रदेशव्याख्यायामेकविंशतितमपदव्याख्या समाप्तेति ॥
साम्प्रतं द्वाविंशतितममारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरपदे गतिपरिणामविशेष एवेति कृत्वा शरीरावगाहनादि चिन्तितं, इह नारकादिपरिणामेन परिणतानां जीवानां प्राणातिपातादिक्रियाविशेषश्चिन्त्यत इति, इह चेदमादिसूत्रम्-'कतिणं भंते । किरियाओं' इत्यादि, तत्र करणं क्रिया, कर्मनिबन्धना चेष्टेत्यर्थः सा च पंचधा, तंजहा-काइया इत्यादि, तत्र चीयत इति | कायः, काय एव कायेन वा निवृत्ता कायिकी, तथाऽधिक्रियते नारकादिष्वात्माऽनेनेत्यधिकरणं देहादि तस्मिन् भवा तेन वा निर्वृत्ता आधिकरणकी, तथा प्रद्वेषो-मत्सरः कर्मबन्धहेतुरकुशलो जीवपरिणाम इत्यर्थः तस्मिन् भवा तेन वा निर्वृत्ता प्राद्वेषिकी, तथा परितापनं परितापः पीडाकरणमित्यर्थः तस्मिन् भवा तेन वा निर्वृत्ता पारितापनिकी, तथा प्राणातिपातक्रिया, इहेन्द्रियप्राणादयः
॥३९॥

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96