Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 47
________________ श्रीप्रज्ञापनो क्रियापदम् पांगम् २२ क्रिया यद्यस्ति कास्ति ? षट्सु जीवनिकायेषु इति, किमुच्यते कज्जतीति उच्यते अनतीतनयाभिप्रायात्मकोऽयं प्रश्नः कतमोऽत्र नयोऽयमध्यवस्य पृच्छति ? उच्यते ऋजुसूत्रः, यस्माद् ऋजुसूत्रस्य हिंसापरिणतिकाल एव प्राणातिपातक्रिया, नान्यथापरिणतस्य, एवं च सूत्रोक्तं-"आता चेव अहिंसा आया हिंसत्ति णिच्छओ एस" त्ति, आत्मैव हिंसापरिणतेः हिंसेत्युच्यते, अतः क्रियमाणैव क्रिया, नान्यथा, एवं सर्वत्र भावनीयं, नवरं विषयः “पढमंमि सव्वजीवा बीए चरिमे य सबदब्वाई । सेसा महब्वया खलु तदेकदेसेण दव्वाणं ॥ १॥" शेष सूत्रसिद्धं यावत्-'जीवे णं भंते! पाणाइवाएणं कति कम्मपगडीओ बंधतीत्यादि, अत्र सप्तविघबन्धका आयुर्वयः अष्टविधबन्धकाः सहायुषा, एवं जहेव सुत्तं सत्तविहबंधकावि अट्टविहबंधगावि, तत्रायुर्बन्धाध्यवसानसहिता अट्ठविहबन्धका., तद्विरहात् सप्तविधबन्धका इति, यस्मादन्तर्मुहूर्तमायुर्बन्धो भवति शेषाश्च मूलप्रकृतयः प्रतिक्षणं बध्यन्त इति, एतच्च | द्रव्यार्थनयदर्शनेनाविरतिं प्रत्युक्तं, इतरथा हि ध्रुधबंधित्वात् ज्ञानावरणादिप्रकृतीनां विग्रहगतावपि बन्धोऽस्ति मूलप्रकृति प्रति, न | तु हिंसादिपरिणतिकाल एव गृह्यते । शेष सूत्रसिद्धं यावत् जीवाणं भंते ! णाणावरणिजं कम्मं बंधमाणा कति किरिया' इत्यादि, | कः अस्यामिसम्बन्धः?, उक्तं जीवाः प्राणातिपातेन सप्तषिधं वा अष्टविधं वा कर्म बध्नाति, इह तु तमेव प्राणातिपातं झानावर| णीयादि कर्म बध्नन् जीवः कतिभिः क्रियाभिः संप्रा(मा)पयतीति, किंच कार्येण झानावरणीयकर्माख्येन कारणस्य प्राणातिपाता| ख्यस्य निवृत्तिमेदाः प्रदश्यते, तद्भेदाच्च बन्धविशेषोऽपीति, तथा चोक्तं-"तिसृभिश्चतसृभिरथ पंचभिश्च हिंसा समाप्यते क्रमशः । |बन्धोऽस्य विशिष्टः स्यात् योगप्रद्वेषसामान्य( साम्यं चेत्) ॥१॥" चेति, कार्यकारणव्यवस्था च आपेक्षाकृता, यथा प्राणातिपातः | कारणं बन्धस्य तथा बन्धोऽपि संसारकारणमिति, निवृत्तिमेदं दर्शयति 'सिय तिकिरिए' इत्यादि, काइयअधिकरणीयपाओसि| याहिं तिकिरिए, काइयअधिकरणीयपाओसियपारियावणियाहिं चउकिरिए, काइयअधिकरणीयपाओसियपारियावणियपाणाइवाय| किरियाहिं पंचकिरिए, शेष निगदसिद्धं, 'जीवे णं भंते ! जीवाओ काकिरिए' इत्यादि, अथ कोऽस्य सम्बन्धः?, उच्यते, न *केवलं वर्तमानभववर्तिनो जीवस्य ज्ञानावरणीयादिकर्मबंधभेदप्ररूपणायां कायिक्यादिक्रियाविशेषेण प्राणातिपातमेदः प्रदश्यते, ॥४१॥

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96