Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
**
कायः तस्य प्रयोग इति समासः अयं च पर्याप्तकस्यैव वेदितव्यः तथैौदारिकमिश्रशरीरकायप्रयोगः, अयं चापर्याप्तकस्येति, आहकेन सहौदारिकं मिश्रं ?, उच्यते-कार्मणेन, तथा चोकं निर्मुक्तिकारण शस्त्रपरिशाध्ययने "जोरण कम्मरणं आहारेती अणंतरं जीवो। ** तेण परं मीसेणं जाव सरीरस्स णिष्फत्ती ॥ १ ॥” आह-यद्येवं किमयं कार्मणमिश्र इति न व्यपदिश्यते ? मिश्रभावस्य द्विष्ठत्वात् * प्रयोगपदम् विशेषाभावाच्च, उच्यते- कार्मणस्यासंसारमविच्छेदेनावस्थितत्वात् (सर्व) शरीरेष्वेव भावात् तिर्यङ्मनुष्यवैक्रियाद्यारंभसमयेऽनेकधा मिश्रोपपत्तेः, सूत्रे च विचित्रमिश्रताया अनभिधानात् तस्मादुत्पत्तिमाश्रित्यौदारिकस्य प्रधानत्वात् कादाचित्कत्वाञ्च्चौदारिकमिश्र
१६ प्रयोग० * एव व्यपदिश्यत इति, यदा पुनरौदारिकशरीरी वैक्रियलब्धिसम्पन्नो मनुष्यः पंचेन्द्रियतिर्यग्योनिको वा पर्याप्तबादरवायुकायिको
वा वैक्रियं करोति तदौदारिकशरीरकामयोग एव वर्त्तमानः प्रदेशान् विक्षिप्य वैक्रियशरीरयोग्यान् पुद्गलानुपादाय यावद्वैक्रिय* शरीरपर्याप्त्या न पर्याप्तं गच्छति तावद्वैक्रियेण मिश्रताऽव्यपदेशचौदारिकस्य प्रारंभकत्वादिति । एवमाहारकेणापि सह मिश्रता * * वेदितव्या, आहारयति च तेनैवेत्यलं विस्तरेण, तथा वैक्रियशरीरकायप्रयोगो वैक्रियपर्याप्तकस्य, तथा वैक्रियमिश्रशरीरकायप्रयोग- * स्तदपर्याप्तकस्य कार्मणेनैव, एतदुक्तं भवति - देवनारकेषूत्पद्यमानस्य अपर्याप्तकस्येति, आक्षेपपरिहारौ प्राग्वत् । लब्धिवैक्रियपरित्यागे चौदारिकप्रयोगस्तदभिनिवृत्तौ सत्यां तस्यैव प्रधानत्वात्, तथा आहारकमिश्रशरीरकायप्रयोगः औदारिकेन सह, तत्* परित्यागेनेतरग्रहणायोद्यतस्य पतदुक्तं भवति यदाऽऽहारकशरीरी भूत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदाऽऽहारकस्य प्रधानत्यादौदारिकप्रवेशं प्रति व्यापारभावान्न परित्यजति यावत् सर्वथैवाहारकं तावदौदारिकेण सह मिश्रतेति, आह-न तत्तेन * सर्वे सर्वथा मुक्तं, पूर्वनिर्वर्तितं तिष्ठत्येव, तत् कथं गृह्णाति ?, सत्यं तिष्ठति तत्तथाप्यौदारिकशरीरोपादानार्थ प्रवृत्त इति गृह्णाति, * ** तथा कार्मणशरीरकायप्रयोगः विग्रहे समुद्धातगतस्य च केवलिनस्तृतीयचतुर्थ पंचमसमयेषु भवति, उक्तं च- “ कार्मणशरीरयोगी चतुर्थके पंचमे च तृतीये च' कार्मणमिश्रभावे प्रयोजनं कार्मणस्यासंसारमित्यादिना" विवरणग्रन्थेनोक्तमेव । 'रइया णं भंते! * कतिविहे प्रयोगे' इत्याद्यापदपरिसमाप्तेः प्रायो निगदसिद्धमेव, नवरं नारकाणां वैक्रियमिश्रशरीरकायप्रयोगः उपपाते कार्म्मणेन उत्तर- *
श्रीप्रज्ञापनो
पांगम्
112311

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96