Book Title: Paryushanparv Kalprabha
Author(s): Vijaydarshansuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra श्रीपर्युषणपर्वकल्प प्रभायां ॥ १ ॥ www.kobatirth.org शास्त्रोक्त पर्युषण पर्व भवाष्टकान्त मोक्षप्रदायि सुसमाधिपरैर्जनैर्यत् । आराधितं निरुपमेयप्रभावमज्ञ- बोधाय तद्विशदपर्वविधिं ब्रुवेऽहम् ॥ ३ ॥ Acharya Shri Kailassagarsuri Gyanmandir अथ मुखे जिह्वा सहस्रवता कोविदे नाऽप्यगणेयगुणगणस्य पर्युषणपर्वण आराधनीयत्वे किं मानमिति चेद् ? उच्यते श्रद्धानुसारिणं प्रति शास्त्रमेव, यदनन्तज्ञानि भगवत्प्रोक्तशास्त्र सिद्धं तदविसंवाद्येव भवतीति तत्र किं प्रमाणान्तरगवेषणयेति सकलावलोकदक्षज्ञानदृष्टित्वात्तस्य तर्कानुसारिणं प्रति युक्तिप्रयुक्तयोऽपि, तथाहिअकुशलयोगनिरोधं कृत्वा कुशलयोगोदीरणेन धर्मकार्य कुशलप्रवृत्त्या शुभात्मपरिणामवृद्धेर्यद्यन्महापुण्यबन्धसाधनं दृष्टाध्यवसाय कृतपापप्रकृतिरूपदुष्कर्म मर्मविनाशकं चाऽभिनवनानाविधकर्मप्रतिबन्धकारकं च तत्तदाराधनीयं श्रीजिनकल्याणकतिथिवत्, श्रीशत्रुञ्जयमहातीर्थवच्च । तथाविधं च श्रीपर्युषण पर्वेति तदप्याराधनीयं, तथाविधं च तद्यथा तथाऽग्रे वक्ष्यते, मोहान्धकारविलुप्तसत्पथे संसारे जिनवचनरत्नदीपालोकेन श्रेयोमार्गप्रवर्त्तकं पापामय विनिवारणे दिव्यौषधं सर्वसमीहितकरणे कल्पद्रुकल्पं यत्पर्युषण पर्व भवोद्धारक प्रभुवीतरागदेवप्रोक्तविधिना भव्य सत्त्वैः सम्यगाराधितं सन्मिथ्या|त्विनो मिथ्यात्वहानं मलिनसम्यक्त्ववतो नयनस्याऽञ्जनवज्जलस्य कतकचूर्णवच्च सम्यक्त्वनैर्मल्यं निर्दयादेस्सदयादित्वमविरतिमतो विरतिमत्त्वं कृपणस्य दातृत्वं कुशीलस्य शीलसम्पन्नत्वं सकषायस्य निष्कषायत्वं चाशिक्षित पञ्चाचारस्य विविदिषाशमदमादिसहकृतपञ्चाचारग्रहणासेवनशिक्षणमल्पतपोवीर्यादेश्च सम्यग्ज्ञान For Private and Personal Use Only पर्युषणपर्वण आराधनीयत्वे किं मान मिति शङ्को द्वारः । ॥ १ ॥

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 74