________________
Shri Mahavir Jain Aradhana Kendra
श्रीपर्युषणपर्वकल्प
प्रभायां
॥ १ ॥
www.kobatirth.org
शास्त्रोक्त पर्युषण पर्व भवाष्टकान्त मोक्षप्रदायि सुसमाधिपरैर्जनैर्यत् । आराधितं निरुपमेयप्रभावमज्ञ- बोधाय तद्विशदपर्वविधिं ब्रुवेऽहम् ॥ ३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ मुखे जिह्वा सहस्रवता कोविदे नाऽप्यगणेयगुणगणस्य पर्युषणपर्वण आराधनीयत्वे किं मानमिति चेद् ? उच्यते श्रद्धानुसारिणं प्रति शास्त्रमेव, यदनन्तज्ञानि भगवत्प्रोक्तशास्त्र सिद्धं तदविसंवाद्येव भवतीति तत्र किं प्रमाणान्तरगवेषणयेति सकलावलोकदक्षज्ञानदृष्टित्वात्तस्य तर्कानुसारिणं प्रति युक्तिप्रयुक्तयोऽपि, तथाहिअकुशलयोगनिरोधं कृत्वा कुशलयोगोदीरणेन धर्मकार्य कुशलप्रवृत्त्या शुभात्मपरिणामवृद्धेर्यद्यन्महापुण्यबन्धसाधनं दृष्टाध्यवसाय कृतपापप्रकृतिरूपदुष्कर्म मर्मविनाशकं चाऽभिनवनानाविधकर्मप्रतिबन्धकारकं च तत्तदाराधनीयं श्रीजिनकल्याणकतिथिवत्, श्रीशत्रुञ्जयमहातीर्थवच्च ।
तथाविधं च श्रीपर्युषण पर्वेति तदप्याराधनीयं, तथाविधं च तद्यथा तथाऽग्रे वक्ष्यते, मोहान्धकारविलुप्तसत्पथे संसारे जिनवचनरत्नदीपालोकेन श्रेयोमार्गप्रवर्त्तकं पापामय विनिवारणे दिव्यौषधं सर्वसमीहितकरणे कल्पद्रुकल्पं यत्पर्युषण पर्व भवोद्धारक प्रभुवीतरागदेवप्रोक्तविधिना भव्य सत्त्वैः सम्यगाराधितं सन्मिथ्या|त्विनो मिथ्यात्वहानं मलिनसम्यक्त्ववतो नयनस्याऽञ्जनवज्जलस्य कतकचूर्णवच्च सम्यक्त्वनैर्मल्यं निर्दयादेस्सदयादित्वमविरतिमतो विरतिमत्त्वं कृपणस्य दातृत्वं कुशीलस्य शीलसम्पन्नत्वं सकषायस्य निष्कषायत्वं चाशिक्षित पञ्चाचारस्य विविदिषाशमदमादिसहकृतपञ्चाचारग्रहणासेवनशिक्षणमल्पतपोवीर्यादेश्च सम्यग्ज्ञान
For Private and Personal Use Only
पर्युषणपर्वण आराधनीयत्वे
किं मान
मिति शङ्को
द्वारः ।
॥ १ ॥