________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सहितप्रबलतरतपोवीर्यक्षमावीर्यगाम्भीर्यवीर्य संयमवीर्याद्युल्लासमसमाहितस्य च दर्शनज्ञानतपश्चारित्रलक्षणचतुर्विधभावसमाधिं च भावरोगिणो भावारोग्यं च श्रीशत्रुञ्जय महातीर्थराजवत् खप्रौढप्रभावमहिम्ना कारयति तत्पर्युषण पर्व मुमुक्षुणा सुविशुद्धयोगत्रयेण सद्भक्त्याऽवश्यमेवाऽऽराधनीयमित्यत्र किमु वक्तव्यं ?, यतो मन्त्रिरहितो राजा शस्त्रहीनो योद्धा कलां विना पुरुषः शीलेन विना सतीत्यादिवत्पर्युषणाराधनां विना साधुश्राद्धो वा न शोभते, सुशोभते च तीर्थेषु शत्रुञ्जयस्येव मन्त्रेषु नमस्कारमन्त्रस्येव सर्वपर्वसूत्तमस्याsस्याऽऽराधनेनैव, रजनी चन्द्रेण नभस्सूर्येण सत्पुरुषेण कुलं कुसुमेन वल्लीत्यादिवत् ।
अनुमानमुद्रा चैवं पर्युषण पर्वाऽऽर्हतैराराधनीयं महापुण्यबन्धकारकत्वाच्छ्रीजिनकल्याणकतिथिवत् । न च पर्युषण पर्वणः पूजाप्रभावना साधर्मिक वात्सल्यतपस्वि भक्त्यादिद्वारा महापुण्यबन्धसाधनत्वे सति तेन महापुण्येन भोगाशिः, ततो भवपरम्परा, मोहधाराभिवृद्धेः न च "पुण्यापुण्यक्षयान्मुक्तिः” इति वचनादयं महापुण्यबन्धो मुमुक्षूणामिष्टः, यच्चाऽनिष्टसाधनं न तदाराधनीयं दुष्कृत्यवत् पुण्यबन्धरूपानिष्टसाधनं च पर्युषण पर्वेति तदपि नाऽऽराधनीयमित्यनुमानबाधाऽत्रेति वाच्यं, यतो दाह्यं विनाश्य वह्नेरिव तस्य महापुण्ययन्धस्य पापं विनाश्य नाशशीलत्वान्न चाऽयं मुक्तिपरिपन्थीति मुमुक्षूणामिष्टत्वान्नोक्तदोषः, भोगप्राप्तिरपि यदुक्ता साऽपि न, भोगानुभवोपनायकाध्यवसाया भावात्, कुशलानुबन्धानवद्यशुभक्रियानुष्ठाने मोक्षाभिलाषेणैव कृतेऽप्यवशिष्टकर्माशस्याऽवान्तर फलरूपयथाकथञ्चिद्भोगप्राप्तावपि शतक्षारपुदशोध्यरत्नन्यायेनाऽनेकभवे
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषण पर्वाराधनाफलं
प्रदश्यै
तत्पर्वाss
राधनेनैव
नरश्शोभत
इत्युप
दर्शनम् ।