________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपर्युषण- ध्वप्रमादानाशंसादिभावकृतसम्यग्ज्ञानक्रियाशुभभावनाद्यभ्यासेन भावितमतेरुत्तरोत्तरभवाधिकतराधिकत-पर्यषणपर्वापर्वकल्प- मशुभानुष्ठानसेवनेनाऽन्ततः प्रकर्षकाष्ठापन्नविशुद्धक्षायिकभावावाप्तेर्मोक्षप्राप्तेः । उक्तं चाऽन्यैरपि
राधनायाप्रभायां "प्रयत्नाद् यतमानस्तु, योगी संशुद्धकिल्विषः । अनेकजन्मसंसिद्ध-स्ततो याति परां गतिम् ॥१॥" इति।। मनुमान
एतच्चाऽग्रे स्फुटीभविष्यति । एवं पर्युषणपर्व आर्हतैस्सम्यगाराधनीय, बहुवर्षकोटाकोटिसश्चितनिकाचितकर्म॥२॥
प्रमाणप्रणोऽपि निर्जराकारित्वात् चैत्रमासाद्यष्टाहिकावत् जिनवचनवद्वा।
दर्शनम् । न चाऽन्त्र हेतोरसिद्धिरिति वाच्यं, पर्युषणपर्व महानिर्जराकारक, शुभालम्बनत्वे सति शुक्लपाक्षिकाणां मनःप्रसादनिमित्तत्वात् , अर्हत्प्रतिमावत् । एवमाराधनायामभिनवकर्मप्रतिबन्धकारकत्वहेतुरपि ज्ञेयः। __ आराधना हि ज्ञानक्रियात्मिका, तत्र क्रिया विरतिसंवरान्तर्गततयाऽऽगच्छत्कर्म प्रतिरुणद्धि, ज्ञानं च सम्यक्त्वसंवरान्तर्गततयाऽऽगच्छत्कर्मप्रतिरोधकं सदभ्यन्तरतपोऽशतया सश्चितकर्म क्षिणोति, तत उभाभ्यामनागतबन्धाभावात् प्राक्तनस्य च निश्शेषस्य परिक्षयाद्भवति योगिनो मोक्षप्राप्तिरित्यहत्तत्त्वश्रद्धानवता कुशलार्थिना मोक्षहेतुभूतकुशलानुबन्धमेव ज्ञानक्रियात्मकं कर्म यथा स्यात्तथा पर्युषणापर्वणि प्रयतितव्यमिति भावः।
॥ २॥ साऽप्याराधना निराशंसभावेनैव कर्तव्या, तथैव महाफलत्वात्, श्रीशत्रुञ्जयादितीर्थयात्रावत्, न त्वैहिकदूपारत्रिकभोगफलेच्छया, तत्कृतस्य निदानरूपत्वेन निषिद्धत्वात् ।
BENERASACRESS
For Private and Personal Use Only