Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 258
________________ पञ्चसूत्रोपनिषद् २०९ भावाराधननिबनधनं च पूर्वभवकृततद्बहुमानप्रशंसादिकम् । अनेकजन्माऽऽराधनायोगेन प्राप्यन्ते सच्चरणयोगा इति तात्पर्यम् । तत आक्षेपात् सम्यक् प्रवर्तते, नियमनिष्पादकत्वेन | ततश्चाऽनाकुलः सन् निष्पादयतीष्टम् । (१८) सत्क्रियाफलम् सूत्र : एवं किरिया सुकिरिआ, एगंतनिक्कलंका, निक्कलंकऽत्थसाहिआ, तहा सुहाणुबंधा उत्तरुतरजोगसिद्धीए। तओ से साहई परं परत्थं सम्म, तक्कुसले सया, तेहिं तेहिं. पयारेहिं साणुबन्धं महोदए, बीज-बीजादिट्ठावणेणं कत्तिविरियाइजुत्ते, अवंझसुहचिट्ठे, समंतभद्दे, सुप्पणिहाणाइ हेऊ, मोहतिमिरदीवे, रागामयवेज्जे, दोसाणलजलणिही, संवेगसिद्धिकरे हवइ अचिंतचिंतामणिकप्पे । ....... एवं भावाराधनारूपा सज्ज्ञानपुरस्सरमनुष्ठीयमाना चरणक्रिया सुक्रिया भवति, सज्ज्ञानमूलकत्वादेवौचित्यसचिवत्वात् । आध्यात्मिकविकास एवोदेत्यस्यामुपादेयमतिः | किञ्चाधिकृतस्य श्रमणस्य प्रव्रज्यायाः प्रागप्युचिताऽऽचारपुरस्सरमेव प्रव्रज्याग्रहणं. बभूव एवं च हृदयविशुद्धिप्रभावेण विवेकानुभावेन च प्रकृत्या शोभनैव भवति चरणक्रियेति । किञ्चैषैकान्तेन निष्कलङ्का भवति, नास्यां काप्यतिचारा. भवन्ति, अतोऽत्यन्तं शून्यैषा दोषमालिन्येन । कथङ्कारं सुक्रियासाधकोऽतिचारमलिनीकुर्यात् स्वमनुष्ठानम् ? स तु लेशेनापि न निषेवते रागादिप्रमादम् । ततश्चासम्भव्यस्य

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324