Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 286
________________ पञ्चसूत्रोपनिषद् २३७ कज्जलपुद्गलानामाकाशे प्रसृतेर्निरन्वयोच्छेदाभावात् । एवं प्रकृते विचित्रभवसन्ततिविरहेऽपि मोक्षावस्थायां शुद्धस्वरूपस्याऽऽत्मनोऽवस्थितत्वान् न तस्योच्छेदोऽङ्गीकर्तुं न्याय्यः । अपि च 'सर्वनाशो मोक्षः' - इत्युपगमे सर्वमसत् पर्यवसेत् । तथाहि - चरमक्षणोऽकारणरूपस्स्यात्, ततश्च स न किञ्चित्कार्यं कुर्यात्, नार्थक्रियाकारी स्यादित्यर्थः । ततश्च - यदेवार्थक्रियाकारि तदेव सत् - इतिनीत्या तदसत्त्वं स्यात् । अत एव तस्य प्राक्तनोऽपि क्षणोऽसन भवेत् । एवञ्च सर्वेऽपि क्षणा असन्तस्स्युः । ततः समग्राऽपि सन्ततिरसती स्यात् । अनिष्टं चैतत् । अतो न क्षणसन्ततिसमुच्छेदस्वरूपो मोक्षोऽभ्युपपत्तुमुचितः । सूत्र : तस्स तहासहावकप्पणमजुत्तं निराहारऽनन्नयकओ निओगेण । तस्सेव तहाभावे जुत्तमेअं । सुहुममट्ठपयमेअ विचिन्तिअव्वं महाप्पण्णाए त्ति । T अथ स्वभाव एवैष चरमक्षणस्य यदसौ निवर्त्ततेऽत्यन्तम्, नोत्पादयति च नवं क्षणम्, एष एव मोक्षः । अपर्यनुयोज्यश्च स्वभावः, अग्नेरुष्णत्ववदिति चेत ? अत्रोच्यते, तथाविधचरमक्षणस्वभावोपगमो युक्तिविरुद्धः । एवमपि तदाग्रहे राजाऽऽज्ञासङ्काशतैव स्यात् । अपि च कोऽयं स्वभावः ? न च स्वस्य भाव इति वाच्यम्, स्वातिरिक्तस्य वस्तुन एव भवन्मतेऽभावात् । किन्तु स्वो भावः स्वभावः, आत्मीया सत्तेत्यर्थः । निवृत्तिस्वभावो भवति चरमक्षणः एवं यद्युच्यते, तदा निवृत्त्यनन्तरमपि विद्यते स्वभावः, चरमक्षणानन्तरं -

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324