Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 300
________________ पञ्चसूत्रोपनिषद् २५१ त्वाद्यलङ्कारालङ्कृतो भवति, यस्य प्रिया स्याज्जिनाज्ञा । चिन्तयत्येष अहो भवसहस्रदुर्लभा खलु जिनाज्ञाऽवाप्ता मया । अत्र हि तद्रुचि - ज्ञाना- ऽनुष्ठानावसरः । तद्वञ्चितस्य क्व पुनस्तदवाप्तिर्मम इति । - जिनाज्ञानुपालनगोचरः परिश्रम एव प्रादुर्भावयत्यनन्तं वीर्यम्। जिनाज्ञापालनगोचरमेव ज्ञानं प्रापयत्यनन्तं केवलज्ञानम् । जिनाज्ञापालने व्ययिता शक्तिः प्रकटयत्यनन्तमात्मसामर्थ्यम् । जिनाज्ञापालनमेव सौख्यमितिमानिनः उदेत्यनन्तं सुखम् । जिनाज्ञाप्रियत्वमपि ज्ञायत उचितप्रवृत्त्या । उचितप्रवृत्तिरेव जिनाज्ञाबहुमानजीवनम् । तदतिक्रमेण प्रवृत्तेर्मोहताण्डवत्वानतिं क्रमात् । आज्ञा हि ज्ञापयति संसारमसारत्व-तुच्छत्वादिविशिष्टम् । यदि चैनं यथावस्थितं जानीयात्, तदा गौणीकुर्यादैहिकादिप्रलोभनम्, न तु जिनाज्ञाम् । इष्टविषयगोचरादर एवौचित्यातिक्रमप्रयोजकः । तदादरवतः कुतो जिनाज्ञाबहुमानः ? विषयकषायहेयत्व एव जिनाज्ञातात्पर्यभावात् । अतो जिनाज्ञानुरागी सर्वत्र मनोवाक्कायैरुचितप्रवृत्तिर्यथा स्यात्, तथा प्रयतेत । एषोऽव॑श्यं साधयति संवेगम् । संवेगो नाम मोक्षस्य मोक्षसाधकस्य च जिनधर्मस्य तीव्राभिलाषः । यदि तु संवेगो न विद्यते हृदि, तदा जिनाज्ञानुरागोऽपि नैव विद्यते परमार्थतः, इति दृढमवधारणीयम् । न हि स्वजन्यमजनयद् वस्तु स्वरूपमेव लभते, निश्चयतस्तस्य कुर्वद्रूपत्वादिति हृदयम् ।

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324