Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२५४
पञ्चसूत्रोपनिषद् ___ भवाभनन्दिने जिनवचनमददानो रक्षति तमधिकतरादनर्थात्, स्वयमपि च विराधनापरिहारेण साधयति मुक्तिम् । एवंविधदयास्वरूपप्ररुपकं भगवन्तमपि बहुमन्यत एष एव । । ____अयं भावः - यस्य हि जिनोक्ताऽऽगमावगमपरिणतिर्नास्ति, स न तात्त्विकां दयां कर्तुं शक्नोति । यस्योक्तपरिणतिर्विद्यते, स एव वास्तवकारुण्ये शक्तः । यतो हि रसादिवृद्धिस्स्यात्, सैव परिणतिः, न त्वजीर्णविकारकीं । सा ह्यागमपरिणतिः, ययाऽपात्रदानसाहसा - ऽदीर्घदृष्टि - आगमातिक्रमाद्या विकारा नोद्भवेयुः । एवंविधस्य विशिष्टो भगवद्बहुमानो भवतीति न किञ्चित्तत्र चित्रम् । आगमपरिणतिमान् यां तात्त्विकां दयां विधत्ते, सा सानुबन्धसुप्रवृत्तिभावेन - परमार्थसाधकसत्प्रवृत्तिपरम्परया नियोगतो मोक्षसाधिका । इति पञ्चमं प्रव्रज्याफलसूत्रं सव्याख्यं समाप्तम् । चरममङ्गलमेवमाहाऽत्र टीकाकृन्महर्षिः - नमः श्रुतदेवतायै भगवत्यै । सर्वनमस्कारार्हेभ्यो नमः | सर्वनमस्कारार्हेभ्यो नमः । सर्ववन्दनानि वन्दे । सर्वोपकारिणामिच्छामो वैयावृत्त्यम् । सर्वानुभावादौचित्येन मे धर्मप्रवृत्तिर्भवतु । सर्वे सत्त्वाः सुखिनः सन्तु । सर्वे सत्त्वा सुखिनः सन्तु । सर्वे सत्त्वा सुखिनः सन्तु - इति ।

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324