Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 302
________________ पञ्चसूत्रोपनिषद् २५३ वराकेभ्यो देयैव जिनाज्ञा, तदन्तरेण तेषां भीमभवसागरोत्तारस्यासम्भवादिति चेत् ? न, तेभ्यस्तददानेनैव तदनुग्रहस्य सम्भवात्, अप्रशान्तमतित्वात्तेषां जिनाज्ञाग्रहणस्य दोषनिबन्धनत्वपर्यवसानात्, उक्तञ्च - अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् | दोषायाभिनवोदीर्णे, शमनीयमिव ज्वरे - इति (सिद्धसेनी द्वात्रिंशिकायाम् १८ - २८) __ अत्राऽऽमकुम्भोदकन्यासोऽपि निदर्शनम्, यदुक्तम् - आमे घडे निहित्तं, जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं, अप्पाहारं विणासेइ - इति (पञ्चवस्तुके ९८२) अल्पाधारम् - अयोग्याऽऽधारम् । अतोऽयोग्याय जिनाज्ञाऽप्रदान एव तद्दया । एषैव दयैकान्तपरिशुद्धा, उक्तदोषपरिहार-प्रवणत्वात् । स्वपराविराधना फला चैषा, सम्यगालोचनेन | -... अयोग्यायापि जिनवचनविनियोगलक्षणा तु न दया, अपि तु दयाभासा, ग्लानापथ्यप्रदानक्रियावत् । भवति हि भवाभिनन्दिनस्तीव्रा विषयगृद्धिः, अत उपहसत्ययं तत्त्यागोपदेशपरं जिनवचनम् | जुगुप्सत एतत् । द्वेष्टि च । तदेतत्पापतरं निपीडयति तं जीवं दुर्गतिततौ । न चैवं तद्गोचरं कारुण्यं कृतं स्यात् । । न च दयाभासेयमेनं रक्षति जिनाज्ञाविराधनात् । जिनाज्ञाऽविनियोगलक्षणा तु दया रक्षति ततः । एवमेव चाखण्डितो भवति त्रिलोकनाथतीर्थकरदेवगोचरो बहुमानभावः | अतो मोक्षसाधिकेयं करुणा ।

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324