Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 301
________________ २५२ पञ्चसूत्रोपनिषद् संवेगिनस्त्वाज्ञानुपालनानुभावेन स्वर्गादिप्राप्तिस्स्यात्तत्राप्यसावौचित्यानतिक्रमेण संवेगविरागरसप्रसराऽऽप्लावित एव तिष्ठेत् । संवेगाभावेन भवाभिनन्दी कथञ्चिद् भोगसमृद्धिं प्राप्य बाढं तस्यां गृद्ध्यति, व्रजति च दुर्गतिम् । (१४) अपात्रे जिनाज्ञाविनियोगः कारुण्यम् सूत्र : न एसा अन्नेसिं देआ । लिंगविवज्जयाओ तप्परिण्णा। तयणुग्गहयट्ठयाए आमकुंभोदगनासनाएणं एसा करुणत्ति वुच्चइ एगंतपरिसुद्धा, अविराहणाफला, तिलोगनाहबहुमाणेणं निस्सेअससाहिगत्ति पवज्जाफलसुत्तं । (इति श्रीपञ्चसूत्रम्) ___ अथैषा-जिनाज्ञा कस्मै न देयेत्याह - यस्य हि जिनाज्ञाप्रियत्वं नास्ति, तस्मै नैषा देया । स ह्यवगणयत्येतदभिहितसूक्ष्माऽऽचारप्रपञ्चम् । उपहसत्येतत्कृतविधिनिषेधान् । उन्माद्यति जिनाज्ञोपहासादिना । ततश्च बम्भ्रमति दारुणसंसारसन्ततौ । अतोऽपुनर्बन्ध-कादितोऽन्ये, येऽसंवेगिनोऽनुचितकारिणश्च, तेभ्यो भवाभिनन्दिभ्यो न देया जिनाज्ञा, नैभ्यः कथनीयानि शास्त्ररहस्यानि, नापि दर्शनीय जिनाज्ञोपदिष्टो मार्ग इत्याशयः | ननु कथन्नामेदृशायोग्यजीवपरिज्ञानं स्यादिति चेत् ? अपुनर्बन्धकादि लिङ्गविपर्यादिति गृहाण यथा तीव्रा विषयपरिग्रहादिसञ्ज्ञा, मुक्तिद्वेषः, अनुचितकारिता चेत्यादि । क्षुद्रतादीनि तल्लक्षणानि तु प्रागुक्तान्येव । स्यादेतत्, एकान्तहितरूपत्वेन जिनाज्ञायास्तेभ्योऽपि

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324