Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 299
________________ पञ्चसूत्रोपनिषद् चेतसोऽवक्रगमनं स्यात्, स मार्गः । एतत्प्रविष्टो मार्गपतितः । एतत्प्रवेशयोग्यो मार्गाभिमुखः । २५० स च दृढप्रतिज्ञत्वादिगुणेन परिज्ञायते । स्वकृतस्खलनायाश्च गुरुसकाश आलोचनां स सम्यक् कुरुते । न च बहुमन्यते संसारम् । एवंविधा एव जीवा जिनवचोऽधिगमार्थं योग्याः, नान्ये भवाभिनन्दिनः । तेषां ह्यतो विषयप्रतिभासमात्रं ज्ञानमुदेति । न तद्द्वेषत्वादिवेदकम्, तत्त्वपरिणतिमदित्यर्थः । यथाऽऽत्माहितकारिण इन्द्रियेष्टविषयसंयोगाः - इति जिनवचसः प्रतिभासमात्रमुपजायते तेषाम् । न तु तद्गोचरद्वेष्यमतिरुदेति, एवञ्च तत्तत्त्वपरिणतिविरह एव तेषाम् । अत एवाभिहितम् न यथावस्थितं शास्त्रं खल्वको वेत्ति जातुचित् । ध्यामलादपि बिम्बात्तु, निर्मलः स्यात् स्वहेतुतः - इति । न हि दर्पणं मलिनं मुखं विशोधयति, अपि तु तत्र तत्प्रतिबिम्बं दृष्ट्वा जनो योग्यसाधनव्यापारणेन स्वमुखमुज्ज्वलीविधत्ते । एवं भवाभिनन्दिजीवस्य बाह्यप्रवृत्तिलक्षणे दर्पणे योग्यजीव आत्मनो मालिन्यं दृष्ट्वा स्वकीययोग्यतानुभावेन परिश्रमप्रभावाच्च निर्मलो भवति । अतः कथं परिणतिविरहे भवाभिनन्दिनां परोत्तारकत्वमुपपद्येत - इति शङ्कानवकाशः । - - सूत्र : एअप्पित्तं खलु इत्थ लिंगं ओचित्तिपवित्तिविन्नेअं, संवेगसाहगं णिअमा । आज्ञाप्रियता ह्यपुनर्बन्धकत्वादिलिङ्गम् - इति सूत्रकारमहर्षयः । उपलक्षणमेतत् तेनाऽऽज्ञाश्रवणतदभ्यासावपि लिङ्गभूतौ दृष्टव्यौ । स हि भवाभिनन्दितामतिक्रम्यापुनर्बन्धक ।

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324