Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२४८
पञ्चसूत्रोपनिषद् तदशुद्धिरेव बीजम् । अतो निश्चयधर्मं लक्ष्यीकृत्य शास्त्रोदितशुद्धचरणादिव्यवहारे यत्नो विधेयः, एवमेव सिद्धिसिद्धेरिति ।
प्रत्याख्यानीयाभिधतृतीयकषायचतुष्कक्षयोपशमप्रादुर्भूतः शुद्धात्मपरिणामो निश्चयचारित्रम् । एतत्सम्पादनसंवर्धनसंरक्षणानि कुरुते व्यवहारचारित्रम् । न हि स्थाल्यां परिवेषितस्य भोजनस्य दर्शनमात्रेण तृप्तिर्भवति, अपि तु तत्कवलनादिव्यवहारेणैव । किञ्च प्रियस्य जनस्य सत्कारादिना प्रीतिवृद्धिरिति सर्वानुभव एव व्यवहारमहिमज्ञापकः | सत्समागमपरमात्मदर्शन-वैराग्यश्रवण-सदनुष्ठानादिव्यवहार-धर्माचरणेन निश्चयधर्माधिगम इति दृढमवधारणीयम् । अन्यथा निश्चयधर्माधिगम इति दृढमवधारणीयम् । अन्यथा तु स्वच्छन्दं विषयकषायादिप्रवृत्त्या कृतः शुभभावोदय इति चिन्त्यम् । किञ्च व्यवहारापलापिनोऽपि निश्चयनयप्रदर्शनार्थमुपदेश-लेखपुस्तकादिव्यवहारमेवाश्रयन्ति, एतदपि ज्ञापयति, यद् व्यवहारो निश्चयसिद्धावावश्यकमङ्गम् ।.
एतत्त्वत्रावधेयम् - निश्चयस्य प्राप्तिरपि व्यवहारतः, निश्चयस्य पूर्णभावोऽपि व्यवहारतः, योगनिरोधलक्षणव्यवहारादरेणैवात्मप्रदेशस्थैर्यलक्षणनिश्चयपूर्णभावयोगात् ।
सूत्र : एसा आणा इह भगवओ समंतभद्दा तिकोडिपरिसुद्धिए, अपुणबंधगाइगम्मा ।
एषा - उभयनयप्ररूपिका पञ्चसूत्रोदितसर्वविधानात्मिका वा, जिनानाम् - अर्हद्भगवताम्, आज्ञा समन्तभद्रा - सर्वथाऽपि

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324