Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 296
________________ पञ्चसूत्रोपनिषद् ननु च निश्चयनयाश्रयेण शुद्धात्मस्वरूपावलम्बनमेव मोक्षाङ्गमिति चेत् ? सोऽयं वदतो व्याघातः, स्वमतस्याप्येवमपा· करणात् । निश्चयनयेन हि शुद्धक्षायिकसम्यक्त्वज्ञानस्वभाव आत्मा । भवद्भिस्त्वद्याप्यशुद्धैव दृष्टिध्रियते सा च व्यवहारान्तर्गतैव । ननु सत्यप्येवं सा दृगुपादेयेति चेत् ? समः समाधिः, महाव्रताद्यनुष्ठानस्याप्येतन्नीत्योपादेयत्वानतिक्रमात् । . व्यवहारस्य तत्त्वाङ्गत्वे कारणत्रयम् (१) प्रवृत्तिविशोधनेन व्यवहारनयेन बाह्यचारित्रपालने न परलोकप्रवृत्त्याः संशोधनं भवति । यावन्मात्राणि व्रतनियम-त्याग-तपांस्यत्राचर्यन्ते, तावन्मात्रपापप्रवृत्त्यादिह्रासो भवतीत्यानुभविकम् । एतत्संस्कारेण परलोकेऽपि भवति तद्भ्रासः । तदनुभावेन चात्मपरिणतिविशुद्धिः । एवञ्च व्यवहारचारित्रं घटयति पारलौकिकविशुद्धतरपरिणतिम् । - I - २४७ (२) अनेकान्तसिद्धितः निश्चयव्यवहारनयद्वयस्याप्यनुसरणेन हि स्याद्वादस्य प्रमाणप्रसिद्धिरिति । (३) निश्चयाङ्गभावेन - व्यवहारतश्चारित्राद्यनुपालनेन पुरुषार्थविशुद्ध्याऽपूर्वकरणादिका निश्चयनयाभिमताऽऽराधना प्राप्यते । एवं हेतुत्रयेण व्यवहारोऽपि मोक्षाङ्गम् । दम्भ- मलिनाशंसादिविमुक्तः शुद्धो व्यवहार एव जिनाज्ञानुसारि पुष्टालम्बनम्, शुद्धनिश्चयधर्मप्रासादसोपानमित्यर्थः । अनन्तव्यवहारधर्मवैफल्ये

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324