Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 295
________________ २४६ पञ्चसूत्रोपनिषद् (१२) तत्त्वाङ्गं व्यवहारः सूत्र : एसो वि तत्तगं पवित्तिविसोहणेण, अणेगंतसिद्धिओ, निच्छयंगभावेणं । जगज्जीवयोग्यत्वादिव्यवहारोऽपि वस्तुसत्पदार्थावलम्बनः, न तु काल्पनिकः । यदि कश्चिद् ब्रूयात् निश्चयतो ऽनन्तज्ञानसुखादिस्वभाव आत्मा । कल्पितस्तु भव्यत्वादिव्यवहारः । अतस्तत्परिपाचनादिवक्तव्यताऽपि व्यर्था - इति । तदा तदभिप्रायो दुराग्रहे पर्यवस्यति । निश्चयवद् व्यवहारस्यापि मोक्षसाधनप्रकरणे तत्त्वाङ्गत्वात्, पारमार्थिकमोक्षाङ्गं व्यवहार इत्याकूतम्। वस्तुतस्तु न केवलं योग्यतापरिपाकक्रिया, अपि तु 'एतद्वस्तु योग्यम्' - इत्याकारका योग्यत्वमतिरपि सन्निबन्धना, न त्वसद्धेतुका । यदि तु योग्यत्वादिभेद एव वस्तुनि न विद्येत, तदा कथं लोको योग्यवस्त्वन्वेषणं कुर्यादिति विभावनीयम् । किञ्चाविभावितयोग्यत्वादेः कङ्कटुके पाकप्रयत्नवद्विफलस्स्यादायासः । तथा ग्रन्थिमत्काष्ठं प्रतिमाघटनार्थमयोग्यम् - इति ज्ञानमपि व्यवहारानाश्रयणेऽप्रमाणं स्यादित्याद्यन्यत्र विस्तरः | प्रवृत्ती मोक्षाङ्गं व्यवहारः | यथा साध्यदृष्टिप्रयोजकतया निश्चयनय उपयुज्यते, तथा पुरुषार्थविशुद्ध्यापादनार्थं व्यवहारोऽपि, अत एव पारमर्षम् - जइ जिणमयं पवज्जह ता मा ववहारणिच्छये मुयह । ववहारणयुच्छेए तित्थुच्छेओ जतोऽवस्सं - इति ।

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324