________________
२४६
पञ्चसूत्रोपनिषद् (१२) तत्त्वाङ्गं व्यवहारः सूत्र : एसो वि तत्तगं पवित्तिविसोहणेण, अणेगंतसिद्धिओ, निच्छयंगभावेणं ।
जगज्जीवयोग्यत्वादिव्यवहारोऽपि वस्तुसत्पदार्थावलम्बनः, न तु काल्पनिकः । यदि कश्चिद् ब्रूयात् निश्चयतो ऽनन्तज्ञानसुखादिस्वभाव आत्मा । कल्पितस्तु भव्यत्वादिव्यवहारः । अतस्तत्परिपाचनादिवक्तव्यताऽपि व्यर्था - इति । तदा तदभिप्रायो दुराग्रहे पर्यवस्यति । निश्चयवद् व्यवहारस्यापि मोक्षसाधनप्रकरणे तत्त्वाङ्गत्वात्, पारमार्थिकमोक्षाङ्गं व्यवहार इत्याकूतम्।
वस्तुतस्तु न केवलं योग्यतापरिपाकक्रिया, अपि तु 'एतद्वस्तु योग्यम्' - इत्याकारका योग्यत्वमतिरपि सन्निबन्धना, न त्वसद्धेतुका । यदि तु योग्यत्वादिभेद एव वस्तुनि न विद्येत, तदा कथं लोको योग्यवस्त्वन्वेषणं कुर्यादिति विभावनीयम् । किञ्चाविभावितयोग्यत्वादेः कङ्कटुके पाकप्रयत्नवद्विफलस्स्यादायासः । तथा ग्रन्थिमत्काष्ठं प्रतिमाघटनार्थमयोग्यम् - इति ज्ञानमपि व्यवहारानाश्रयणेऽप्रमाणं स्यादित्याद्यन्यत्र विस्तरः |
प्रवृत्ती मोक्षाङ्गं व्यवहारः | यथा साध्यदृष्टिप्रयोजकतया निश्चयनय उपयुज्यते, तथा पुरुषार्थविशुद्ध्यापादनार्थं व्यवहारोऽपि, अत एव पारमर्षम् - जइ जिणमयं पवज्जह ता मा ववहारणिच्छये मुयह । ववहारणयुच्छेए तित्थुच्छेओ जतोऽवस्सं - इति ।