________________
२४५
पञ्चसूत्रोपनिषद्
ननु एवमभव्येभ्यः को विशेषो भव्यानामित्यत्राऽऽहप्रतिमायोग्यदारुनिदर्शनेन - इति । तथाहि तुल्यायां प्रतिनिष्पत्तौ विशेषो भवति काष्ठयोः । एकं दारु प्रतिमायोग्यम्, ग्रन्थ्यादिशून्यत्वात् । न तु तदन्यत्, ग्रन्थ्यादियुक्तत्वात् । अयोग्यात्तु काष्ठात्प्रतिमा नैव भवति । योग्यादपि सर्वस्मान्न भवति । यथा स्वयम्भूरमणद्वीपसत्कमृत्तिकाभिर्योग्याभिरपि न घटनिष्पत्तिभवति । नापि वन्ध्यत्वरहितसुशीलविधवायाः पुत्रोत्पत्तिर्भवति । न चैवं तथाविधयोग्यतैव तस्या नास्तीति । विद्वदङ्गनादिसिद्धमेतत् । __ अथ भव्यत्वं निवृत्तिस्वभावं वा नित्यं वा ? नित्यत्वे मोक्षेऽपि तत्प्रसक्तिः, एवञ्च मोक्षेऽपि मोक्षगमनयोग्यत्वसद्भावे परमार्थतो मोक्षस्यैवानुपपत्तिः । निवृत्तिस्वभावं चेत्, तदा प्रथमत एव तेन निवृत्तेन भाव्यम्, तत्स्वाभाव्यात् । अथ मा भूदेष दोष इति प्राप्तसामग्रीकं तन्निवर्त्तत इत्युच्येत, तदा सापेक्षतया तत्स्वाभाव्यमेव तस्यानुपपन्नं स्यात् । एवमुभयथाप्यसिद्धिः भव्यत्वस्य इति स्थितम् । .
मैवम्, उक्तविकल्पजालस्य व्यर्थत्वात् । यद्यपि न भव्यत्वं नित्यम्, जीवस्य सिद्धिगमने सति निवर्त्तनस्वाभाव्यात् । तथापि व्यवहारेणैतज़्जीवस्वभावभूतमुच्यते । निश्चयतस्तु सदा स्थास्नुस्वभावा ज्ञानादय एव जीवस्वभावभूताः । व्यवहारो ह्येवं व्यवस्थितः, यथा - न कर्माधीनं भव्यत्वम्, अपि तु सहजं जीवयोग्यतारूपम्, अतः स्वभावभूतमेतत्, न चैतदभव्येषु भवति । उपायैभव्यत्वपरिपाकं कृत्वाऽऽसाद्यते मोक्षफलमित्यादि प्रागुक्तमेव ।