________________
२४४
पञ्चसूत्रोपनिषद् युक्तानन्त्यादिविरहात्, अनन्तानन्तप्रमाणत्वात्तेषाम्, त्रिकालसमया. यथा कदापि न क्षयमिन्ति, तथा भव्यजीवा अपि । यथा न कालः प्रत्यावर्त्तते, तथा सिद्धा अपि । __नन्वेवम्-- ऋतुर्व्यतीतः परिवर्त्तते पुनः, क्षयं प्रयातः पुनरेति चन्द्रमाः । गतं गतं नैव तु सन्निवर्त्तते, जलं नदीनां च नृणां च जीवितम् इत्यस्यानुपपत्तिरिति चेत् ?
न, एतद् व्यवहारत उच्यते । न हि ऋत्वयनादिकं तदेव पुनरागच्छति तत्त्वतः, अपि तु नवमेव, अन्यथा तस्यैव परावृत्ती बाल्याद्यनिवृत्तिः, तस्य बाल्याद्यापादनस्वभावत्वादिति परिभावनीयम् । अतो न क्षयो भव्यानामिति स्थितम् । स्मर्त्तव्यमत्राऽऽर्षम्-जइया वि होइ पुच्छा जिणाण मग्गम्मि उत्तरं तइया । इक्कस्स णिगोयस्स अणंतभागो ३ सिद्धिगओ - इति (नवतत्त्वप्रकरणे)
एवं च सति भव्यत्वं योग्यतामात्रमेव सिद्धिं प्रति केषाञ्चित् प्राणिनाम्, येन कदाचिदपि सेत्स्यन्ति, तथा चाऽऽगमः-भव्वावि न सिज्झिस्संति केइ - इत्यादि । भव्यत्वं सिद्धिगमन योग्यत्वम् | फलगम्या च योग्यता । ___ ननु चैवम् - सव्वे भविआ सिझंति - इत्यागमविरोध इति चेत् ? न, अभिप्रायापरिज्ञात् । भव्यस्यैव सिद्धिर्नान्यस्येत्यत्र तत्तात्पर्यभावात्, तदुक्तम् नैतद् वयं वदामो यद् भव्यः सर्वोऽपि सिध्यति । यस्तु सिध्यति सोऽवश्यं भव्य एवेति नो मतम् - इति (अध्यात्मसारे)