________________
पञ्चसूत्रोपनिषद्
२४३ तथाजीवस्वभाव एवेति गृहाणं । यथा हि मृत्तिकालेपाष्टकोपेतमलाबु निमज्जति सलिल लेपापगमे तून्मज्जति, तथातत्स्वाभाव्यात् । एवं कर्माष्टकलेपलिप्तो जीवः कर्मप्रेरिततया गतिं कुरुते | तल्लेपरहितस्तु प्रतिबन्धकविरहेण स्वस्वाभाव्यादुर्ध्वं गच्छति । तत्रापि नियमादस्पृशद्गत्या गच्छति । अत्र पुनरागमनविरहोऽप्यलाबुनिदर्शनेन सिद्धः । एकेनैव समयेन लोकान्तप्राप्तिर्भवति सिद्धस्य नात्रोत्पलपत्रशतभेदनिदर्शनमुपयुज्यते, तत्र प्रतिपत्रवेधेन क्रमेण गतियोगादसङ्ख्यसमयप्रमाणो गमनकालो भवति । अत्र त्वस्पृशद्गतियोगेनैकेनैव समयेन सिद्धिगमनं भवति । सम्भवत्येषाऽपि.गतिर्गत्युत्कर्षविशेषयोगात् । यथैव सामान्यवेगगतेः सकाशाद्विशिष्टवेगगतौ वैशिष्ट्यं भवति, तथैव वेगप्रकर्षोपेतायामुत्कृष्टायां गतावस्पृशत्तालक्षणो विशेषो द्रष्टव्य इति ।
(११) भव्यानामनुच्छेदः सूत्र : अनुच्छेओ भव्वाण अणंतभावेण, एअमणंताणतयं । समया इत्थ नायं । भव्वतं जोगयामित्तमेव केसिं चि पडिमाजुग्गदारूनिदंसणेणं । ववहारमयमेयं । . . .. ननु न हि सिद्धाः प्रत्यागच्छन्ति । अनादिकालत सिद्धिगमनमावर्त्तते । प्रतिषण्मासं जघन्यतोऽप्येकजीवस्तु सिद्ध्यत्येव । तदा कथं न भव्यजीवशून्यो भवति संसार इति चेत् ? तेषामानन्त्यादिति गृहाण | न चानन्त्येऽपि तत्क्षयो भविष्यति, वनस्पतिकायस्थितिवदिति वाच्यम्, भव्यानां