________________
२४२
पञ्चसूत्रोपनिषद् मुक्तत्वासम्भवाच्च ।
तदत्र किन्तत्त्वमिति व्यामूढमतेः सर्वथा युक्तयुक्तं जिनमतनिरूपितं मोक्षस्वरूपं निरूपयति -
मोक्षावस्थायां हि सिद्धजीवस्यापर्यवसितमेव सुखं भवति, अत एवोत्तममिदम्, न च विनश्वरं सुखं श्रेष्ठं भवति, अत एतदेव प्रधानम् । नात्र सर्वथौत्सौक्यं भवति । अनन्तं चैतत् । औत्सुक्यं हि शतमुखं खण्डनं विधत्ते सौख्यस्य । सर्वथानौत्सुक्ययोगेनैवाखण्डितसुखावियोगः सम्भवी ।
सिद्धस्थानम् - सिद्धभगवन्तश्चतुर्दशरज्जूमितस्य लोकस्याग्रभागे सिद्धशिलाया उपरितनभागे व्यवस्थिताः सन्ति । सिद्धशिला च पञ्चचत्वारिंशद्योजनलक्षप्रमाणायामविस्तारा वृत्ता स्फटिकरत्नमयी च । उक्तप्रमाणनिबन्धनमिदम्, पञ्चचत्वारिंशद्योजनलक्षप्रमाणान्मनुष्यक्षेत्राद्धि ऋजुगत्या जीवा सिध्यन्तीति, अत उपरितनभागेऽपि तावत्प्रमाणमेव भवति सिद्धक्षेत्रम् । सा च शिला मध्यभागेऽष्टयोजनबाहल्या पर्यन्तभागेऽतु द्वितीयाचन्द्रप्रान्तवदत्यन्तं तन्वी । तदुपरितनभागे योजनप्रमाणे लोकाकाश उपरितन योजनषड्भागे सिद्धा व्यवस्थिताः । यत्र ह्येकः सिद्धः, तत्रैव क्षेत्रेऽवश्यमन्येऽनन्ताः सिद्धा भवन्ति । क्षेत्रस्य परिमितत्वात् सिद्धानां चानन्तत्वात् । ते च भवसन्तत्या . आत्यन्तिकक्षयकरणेन नित्यमुक्ता बभूवुः । सर्वशुभमवाप्यैकान्तेन सुखिनोऽरूपितयाऽन्योऽन्याबाधया तिष्ठन्ति ।
ननु सर्वकर्मक्षये क एतान् लोकान्ते प्रापयतीत चेत् ?