________________
पञ्चसूत्रोपनिषद्
ननु च निश्चयनयाश्रयेण शुद्धात्मस्वरूपावलम्बनमेव मोक्षाङ्गमिति चेत् ? सोऽयं वदतो व्याघातः, स्वमतस्याप्येवमपा· करणात् । निश्चयनयेन हि शुद्धक्षायिकसम्यक्त्वज्ञानस्वभाव आत्मा । भवद्भिस्त्वद्याप्यशुद्धैव दृष्टिध्रियते सा च व्यवहारान्तर्गतैव । ननु सत्यप्येवं सा दृगुपादेयेति चेत् ? समः समाधिः, महाव्रताद्यनुष्ठानस्याप्येतन्नीत्योपादेयत्वानतिक्रमात् ।
.
व्यवहारस्य तत्त्वाङ्गत्वे कारणत्रयम्
(१) प्रवृत्तिविशोधनेन व्यवहारनयेन बाह्यचारित्रपालने न परलोकप्रवृत्त्याः संशोधनं भवति । यावन्मात्राणि व्रतनियम-त्याग-तपांस्यत्राचर्यन्ते, तावन्मात्रपापप्रवृत्त्यादिह्रासो भवतीत्यानुभविकम् । एतत्संस्कारेण परलोकेऽपि भवति तद्भ्रासः । तदनुभावेन चात्मपरिणतिविशुद्धिः । एवञ्च व्यवहारचारित्रं घटयति पारलौकिकविशुद्धतरपरिणतिम् ।
-
I
-
२४७
(२) अनेकान्तसिद्धितः निश्चयव्यवहारनयद्वयस्याप्यनुसरणेन हि स्याद्वादस्य प्रमाणप्रसिद्धिरिति ।
(३) निश्चयाङ्गभावेन - व्यवहारतश्चारित्राद्यनुपालनेन पुरुषार्थविशुद्ध्याऽपूर्वकरणादिका निश्चयनयाभिमताऽऽराधना प्राप्यते ।
एवं हेतुत्रयेण व्यवहारोऽपि मोक्षाङ्गम् । दम्भ- मलिनाशंसादिविमुक्तः शुद्धो व्यवहार एव जिनाज्ञानुसारि पुष्टालम्बनम्, शुद्धनिश्चयधर्मप्रासादसोपानमित्यर्थः । अनन्तव्यवहारधर्मवैफल्ये