Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पञ्चसूत्रोपनिषद्
२४९ निर्दोषा, त्रिकोटिपरिशुद्ध्या - कषच्छेदतापपरिशुद्ध्या । यथैव सुवर्णं निकषेण छेदेन तापेन च परीक्ष्यते, एवमेव शास्त्रवचोऽपि । तथा हि हितविधानान्यहितनिषेधानि यत्र सन्ति तच्छास्त्रं कषशुद्धम् । तादृशविधिनिषेधनिर्वाहकक्रियाऽऽचारप्रतिपादकं शास्त्रं छेदशुद्धम् । उक्तविधिनिषेधाऽऽचारकदम्बकं येन साङ्गत्यमुपेयात्, तादृशतत्त्वनिरूपणं यत्र शास्त्रे विद्यते, तत्तापशुद्धम् । .. एतत्परीक्षात्रितयोत्तीर्णानि खलु जिनवचांसि, (१) स्वाध्यायादिविधीनां हिंसादिनिषेधानां च तेषूपलब्धेः । (२) एतन्निर्वाहप्रयोजकानां तपः पृतीनां समित्यादीनां चाप्युपलम्भात् । (३) उक्तसर्वसाङ्गत्यप्रयोजकनित्यानित्याऽऽत्मादितत्त्वनिरूपणप्राप्तेश्च । न ह्येकान्तनित्ये सत्यात्मनि-निषिद्धानां हिंसादीनां परिहारो विहितानां च तपश्चरणादीनामासेवनं घटाकोटिमाटीकते । नाप्येकान्तेन क्षणिक आत्मनि, हिंसात्यागकर्तुः तपउपादानकर्तुश्च क्षणनष्टत्वात् तदकर्तुश्च फलयोगित्वात् कृतनाशाकृताभ्यागमदोषानुषङ्गात् । अतो नित्यानित्य एवात्मनि सर्वसाङ्गत्यसद्भावात्तत्प्रतिपादकः स्याद्वाद एव जिनाभिहितः शरणीकार्यः ।।
एवं विधं च जिनवचनमपुनर्बन्धकादिगम्यम् । सप्ततिकोटाकोटिसागरमितामुत्कृष्टां कर्मस्थितिं यः पुनर्न बध्नाति, अपुनर्बन्धकत्वेन क्षपयति, सोऽपुनर्बन्धकः | आदिना मार्गाभिमुख - मार्गपतितादिग्रहः । सम्यक्त्वलक्षणविशिष्टगुणस्थानकप्रापकघातिकर्मक्षयोपशमविशेषः, येन तत्त्वश्रद्धानं प्रति

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324