Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 291
________________ २४२ पञ्चसूत्रोपनिषद् मुक्तत्वासम्भवाच्च । तदत्र किन्तत्त्वमिति व्यामूढमतेः सर्वथा युक्तयुक्तं जिनमतनिरूपितं मोक्षस्वरूपं निरूपयति - मोक्षावस्थायां हि सिद्धजीवस्यापर्यवसितमेव सुखं भवति, अत एवोत्तममिदम्, न च विनश्वरं सुखं श्रेष्ठं भवति, अत एतदेव प्रधानम् । नात्र सर्वथौत्सौक्यं भवति । अनन्तं चैतत् । औत्सुक्यं हि शतमुखं खण्डनं विधत्ते सौख्यस्य । सर्वथानौत्सुक्ययोगेनैवाखण्डितसुखावियोगः सम्भवी । सिद्धस्थानम् - सिद्धभगवन्तश्चतुर्दशरज्जूमितस्य लोकस्याग्रभागे सिद्धशिलाया उपरितनभागे व्यवस्थिताः सन्ति । सिद्धशिला च पञ्चचत्वारिंशद्योजनलक्षप्रमाणायामविस्तारा वृत्ता स्फटिकरत्नमयी च । उक्तप्रमाणनिबन्धनमिदम्, पञ्चचत्वारिंशद्योजनलक्षप्रमाणान्मनुष्यक्षेत्राद्धि ऋजुगत्या जीवा सिध्यन्तीति, अत उपरितनभागेऽपि तावत्प्रमाणमेव भवति सिद्धक्षेत्रम् । सा च शिला मध्यभागेऽष्टयोजनबाहल्या पर्यन्तभागेऽतु द्वितीयाचन्द्रप्रान्तवदत्यन्तं तन्वी । तदुपरितनभागे योजनप्रमाणे लोकाकाश उपरितन योजनषड्भागे सिद्धा व्यवस्थिताः । यत्र ह्येकः सिद्धः, तत्रैव क्षेत्रेऽवश्यमन्येऽनन्ताः सिद्धा भवन्ति । क्षेत्रस्य परिमितत्वात् सिद्धानां चानन्तत्वात् । ते च भवसन्तत्या . आत्यन्तिकक्षयकरणेन नित्यमुक्ता बभूवुः । सर्वशुभमवाप्यैकान्तेन सुखिनोऽरूपितयाऽन्योऽन्याबाधया तिष्ठन्ति । ननु सर्वकर्मक्षये क एतान् लोकान्ते प्रापयतीत चेत् ?

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324