Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 292
________________ पञ्चसूत्रोपनिषद् २४३ तथाजीवस्वभाव एवेति गृहाणं । यथा हि मृत्तिकालेपाष्टकोपेतमलाबु निमज्जति सलिल लेपापगमे तून्मज्जति, तथातत्स्वाभाव्यात् । एवं कर्माष्टकलेपलिप्तो जीवः कर्मप्रेरिततया गतिं कुरुते | तल्लेपरहितस्तु प्रतिबन्धकविरहेण स्वस्वाभाव्यादुर्ध्वं गच्छति । तत्रापि नियमादस्पृशद्गत्या गच्छति । अत्र पुनरागमनविरहोऽप्यलाबुनिदर्शनेन सिद्धः । एकेनैव समयेन लोकान्तप्राप्तिर्भवति सिद्धस्य नात्रोत्पलपत्रशतभेदनिदर्शनमुपयुज्यते, तत्र प्रतिपत्रवेधेन क्रमेण गतियोगादसङ्ख्यसमयप्रमाणो गमनकालो भवति । अत्र त्वस्पृशद्गतियोगेनैकेनैव समयेन सिद्धिगमनं भवति । सम्भवत्येषाऽपि.गतिर्गत्युत्कर्षविशेषयोगात् । यथैव सामान्यवेगगतेः सकाशाद्विशिष्टवेगगतौ वैशिष्ट्यं भवति, तथैव वेगप्रकर्षोपेतायामुत्कृष्टायां गतावस्पृशत्तालक्षणो विशेषो द्रष्टव्य इति । (११) भव्यानामनुच्छेदः सूत्र : अनुच्छेओ भव्वाण अणंतभावेण, एअमणंताणतयं । समया इत्थ नायं । भव्वतं जोगयामित्तमेव केसिं चि पडिमाजुग्गदारूनिदंसणेणं । ववहारमयमेयं । . . .. ननु न हि सिद्धाः प्रत्यागच्छन्ति । अनादिकालत सिद्धिगमनमावर्त्तते । प्रतिषण्मासं जघन्यतोऽप्येकजीवस्तु सिद्ध्यत्येव । तदा कथं न भव्यजीवशून्यो भवति संसार इति चेत् ? तेषामानन्त्यादिति गृहाण | न चानन्त्येऽपि तत्क्षयो भविष्यति, वनस्पतिकायस्थितिवदिति वाच्यम्, भव्यानां

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324