Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२४१
पञ्चसूत्रोपनिषद्
एतदपि नियुक्तिकम्, स्वरूपविगमप्रसक्तेः । आकाशपुष्पवदसत्त्वापत्तेः । किञ्च चिद्रूपताऽप्यात्मनि तदेव सम्भवति यदा तस्मिन् ज्ञानं स्यात् । तच्च विषयानभ्युपगमे दुर्घटम् । तथा सर्वजीवानां शुद्धैकब्रह्मरूपताऽभ्युपगमात् सर्वजीवात्मलयमन्तरेणासम्भविन्येकतमस्यापि मुक्तिरिति । ____ मोक्षस्वरूपे बौद्धमतम् - क्षणिकस्यात्मनः संसारकालीना विज्ञानक्षणसन्ततिर्विषयाकारेण कलुषिता भवति । सा च स्वच्छीभूय निराकारचित्सन्ततितया निर्विषयत्वेन निरूपप्लवतामुपेता मोक्षः । यद्वा विज्ञानक्षण सन्तत्यत्यन्तोच्छेदो मोक्षः |
एतदप्यसारम्, निर्विषयस्य ज्ञानत्वायोगात् । सतोऽत्यन्तोच्छेदासम्भवात्, सर्वनाशरूपाया मुक्तेरस्पृहणीयत्वाच्च । ___ मोक्षस्वरूपे पाश्चात्यदर्शनानि - जीवस्वरूपमेव स्वतन्त्रं न विद्यते । नास्यानादिबद्धत्वादिकमप्यत एवाभ्युपेयते । आदमइव युगलाज्जीवात्मोद्भवोऽभूत् । यदा चेश्वरस्यास्थान्यां.. सर्वजीवा मिलष्यन्ति तदा न्यायः करिष्यते । ततश्च मूलतः स्वर्ग-नरक-मृत्युलोक-व्यवस्था भविष्यति ।
एतदपि तर्कविरुद्धमिति प्रत्यक्षमीक्ष्यतेऽपकर्णनीयमेतत्, नियतवस्तुस्वरूपाप्तदर्शकत्वात्, मोक्षस्वरूपाज्ञापकत्वाच्च ।
मोक्षस्वरूपेऽवतारवादः - मुक्ता अपि धर्मग्लानिमपाकर्तुं पुनः संसारेऽवतरन्तीति ।
तदेतद्विरुद्धतरम्, माता मे वन्ध्येतिवत्, जन्मप्रयोजककर्मादितः सर्वथा विरहितस्य जन्मायोगात्, सजन्मनश्च

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324